Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 10 / 1

वि॒राड्वा इ॒दमग्र॑ आसी॒त्तस्या॑ जा॒तायाः॒। सर्व॑मबिभेदि॒यमे॒वेदं भ॑वि॒ष्यतीति॑ ॥1॥

Veda : Atharvaveda
Warning: Trying to access array offset on value of type null in /home2/vedyog/public_html/vedyog.net/mantra_atharvaveda.php on line 227
| Paryay : | Sukta : 10 | Paryay : 1 | Mantra No : 1

In Hindi:

ऋषि : अथर्वाचार्यः | देवता : विराट् | छन्द : त्रिपदार्ची पङ्क्तिः | स्वर :

विषय : ब्रह्म विद्या का उपदेश।

पदपाठ : वि॒ऽराट् । वै । इ॒दम् । अग्रे॑ । आ॒सी॒त् । तस्या॑: । जा॒ताया॑: । सर्व॑म्‌ । अ॒बि॒भे॒त् । इ॒यम् । ए॒व । इ॒दम् । भ॒वि॒ष्यति॑ । इति॑ ॥१०.१॥

पदार्थ : (विराट्) विराट् [विविध ईश्वरी, ईश्वरशक्ति] (वै) ही (अग्रे) पहिले ही पहिले (इदम्) यह [जगत्] (आसीत्) थी, (तस्याः जातायाः) उस प्रकट हुई से (सर्वम्) सबका सब (अबिभेत्) डरने लगा, “(इति) बस, (इयम् एव) यही (इदम्) यह [जगत्] (भविष्यति) हो जायगी” ॥१॥"

भावार्थ :

टिप्पणी :१−(विराट्) अ० ८।९।१। विविधेश्वरी। विविधप्रकाशमाना। ईश्वरशक्तिः (वै) एव (इदम्) जगत् (अग्रे) सृष्टेः प्राक् (तस्याः) विराजः सकाशात् (जातायाः) प्रादुर्भूतायाः (सर्वम्) सकलं जगत् (अबिभेत्) भयमगच्छत् (इयम्) विराट् (एव) (इदम्) (भविष्यति) प्राकट्यं प्राप्स्यति (इति) समाप्तौ। पर्य्याप्ते। परामर्शे ॥