Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 5 / 19

यं ब्रा॑ह्म॒णे नि॑द॒धे यं च॑ वि॒क्षु या वि॒प्रुष॑ ओद॒नाना॑म॒जस्य॑। सर्वं॒ तद॑ग्ने सुकृ॒तस्य॑ लो॒के जा॑नी॒तान्नः॑ सं॒गम॑ने पथी॒नाम् ॥ 19॥

Veda : Atharvaveda | Kand : 9 | Sukta : 5 | Paryay : | Mantra No : 19

In Hindi:

ऋषि : भृगुः | देवता : अजः पञ्चौदनः | छन्द : त्रिष्टुप् | स्वर :

विषय : ब्रह्मज्ञान से सुख का उपदेश।

पदपाठ : यम् । ब्रा॒ह्म॒णे । नि॒ऽद॒धे । यम् । च॒ । वि॒क्षु । या: । वि॒ऽप्रुष॑: । ओ॒द॒नाना॑म् । अ॒जस्य॑ । सर्व॑म् । तत् । अ॒ग्ने॒ । सु॒ऽकृ॒तस्य॑ । लो॒के । जा॒नी॒तात् । न॒: । स॒म्ऽगम॑ने । प॒थी॒नाम् ॥५.१९॥

पदार्थ : (यम्) जिस (यम्) नियम को (ब्राह्मणे) ब्रह्मज्ञानी में (च) और (अजस्य) [प्रत्येक] जीवात्मा के (ओदनानाम्) सेचन धर्म्मों की (याः) जिन (विप्रुषः) विविध पूर्तियों को (विक्षु) प्रजाओं के बीच (निदधे) उस [परमेश्वर] ने रक्खा है। (अग्ने) हे विद्वान् पुरुष ! (नः) हमारे (तत् सर्वम्) उस सबको (सुकृतस्य लोके) सुकर्मी के लोक में (पथीनाम्) मार्गों के (संगमने) संगम पर (जानीतात्) तू जान ॥१९॥"

भावार्थ :

टिप्पणी :१९−(यम्) (ब्राह्मणे) ब्रह्मज्ञे (निदधे) स्थापितवान् सः परमेश्वरः (यम्) यम-ड। नियमम् (च) (विक्षु) प्रजासु (विप्रुषः) प्रुष स्नेहनसेवनपूरणेषु-क्विप्। विविधपूर्तीः (ओदनानाम्) उन्देर्नलोपश्च। उ० २।७६। उन्दी क्लेदने-युच्। ओदनो मेघः-निघ० १।१०। ओदनमुदकदानं मेघम्-निरु० ६।™३४। सेचनानाम् (अजस्य) जीवात्मनः (सर्वम्) (तत्) (अग्ने) हे विद्वन् (सुकृतस्य) पुण्यात्मनः (लोके) स्थाने (जानीतात्) जानीहि (नः) अस्माकम् (संगमने) संयोगे (पथीनान्) सर्वधातुभ्य इन्। उ० ४।११८। पथे गतौ-इन्। पथाम्। मार्गाणाम् ॥