Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 5 / 20

अ॒जो वा इ॒दम॑ग्ने॒ व्य᳡क्रमत॒ तस्योर॑ इ॒यम॑भव॒द्द्यौः पृ॒ष्ठम्। अ॒न्तरि॑क्षं॒ मध्यं॒ दिशः॑ पा॒र्श्वे स॑मु॒द्रौ कु॒क्षी ॥ 20॥

Veda : Atharvaveda | Kand : 9 | Sukta : 5 | Paryay : | Mantra No : 20

In Hindi:

ऋषि : भृगुः | देवता : अजः पञ्चौदनः | छन्द : पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हता भुरिक्त्रिष्टुप् | स्वर :

विषय : ब्रह्मज्ञान से सुख का उपदेश।

पदपाठ : अ॒ज: । वै । इ॒दम् । अग्रे॑ । वि । अ॒क्र॒म॒त॒ । अस्य॑ । उर॑: । इ॒यम् । अ॒भ॒व॒त् । द्यौ: । पृ॒ष्ठम् । अ॒न्तर‍ि॑क्षम् । मध्य॑म् । दिश॑: । पा॒र्श्वे इति॑ । स॒मु॒द्रौ । कु॒क्षी इति॑ । ५.२०॥

पदार्थ : (अजः) अजन्मा वा गतिशील परमात्मा (वै) ही (अग्रे) पहिले ही पहिले (इदम्) इस [जगत्] में (वि अक्रमत्) विचरता था, (तस्य) उसकी (उरः) छाती (इयम्) यह [भूमि] और (पृष्ठम्) पीठ (द्यौः) आकाश (अभवत्) हुआ। (मध्यम्) कटिभाग (अन्तरिक्षम्) अन्तरिक्ष, (दिशः) दिशाएँ (पार्श्वे) दोनों काँखें [कक्षाएँ] और (समुद्रौ) दोनों [अन्तरिक्ष और भूमि के] समुद्र (कुक्षी) दोनों कोखें [हुईं] ॥२०॥"

भावार्थ :

टिप्पणी :२०−(अजः) म० १। अजन्मा गतिशीलो वा परमात्मा (वै) अवश्यम् (इदम्) दृश्यमानं जगत् (अग्रे) सृष्टेः प्राक् (व्यक्रमत) व्यचरत् (तस्य) (उरः) अर्तेरुच्च। उ० ४।१९५। ऋ गतौ-असुन् उत्वं रपरत्वं च। वक्षः (इयम्) भूमिः (अभवत्) (द्यौः) आकाशः (पृष्ठम्) देहपश्चाद्भागः (अन्तरिक्षम्) (मध्यम्) कटिभागः (दिशः) पूर्वादयः (पार्श्वे) अ० ४।१४।७। कक्षयोरधोभागौ (समुद्रौ) अन्तरिक्षभूमिस्थजलौघौ (कुक्षी) अ० २।५।४। दक्षिणोत्तरकुक्षिद्वयम् ॥