Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 7 / 8

यत्प॑र॒मम॑व॒मं यच्च॑ मध्य॒मं प्र॒जाप॑तिः ससृ॒जे वि॒श्वरू॑पम्। किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॒ यन्न प्रावि॑श॒त्किय॒त्तद्ब॑भूव ॥ 8॥

Veda : Atharvaveda | Kand : 10 | Sukta : 7 | Paryay : | Mantra No : 8

In Hindi:

ऋषि : अथर्वा, क्षुद्रः | देवता : स्कन्धः, आत्मा | छन्द : भुरिक्त्रिष्टुप् | स्वर :

विषय : ब्रह्म के स्वरूप के विचार का उपदेश।

पदपाठ : यत् । प॒र॒मम् । अ॒व॒मम् । यत् । च॒ । म॒ध्य॒मम् । प्र॒जाऽप॑ति: । स॒सृ॒जे । वि॒श्वऽरू॑पम् । किय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । तत्र॑ । यत् । न । प्र॒ऽअवि॑शत् । किय॑त् । तत् । ब॒भू॒व॒ ॥७.८॥

पदार्थ : (यत्) जो कुछ (परमम्) अति ऊँचा, (अवमम्) अति नीचा (च) और (यत्) जो कुछ (मध्यमम्) अति मध्यम (विश्वरूपम्) नाना रूप [जगत्] (प्रजापतिः) प्रजापति [परमेश्वर] ने (ससृजे) रचा था। (कियता) कहाँ तक (स्कम्भः) स्कम्भ [धारण करनेवाले परमेश्वर] ने (तत्र) उस [जगत्] में (प्र विवेश) प्रवेश किया था, (यत्) जितने में उस [परमेश्वर] ने (न) नहीं (प्राविशत्) प्रवेश किया है, (तत्) वह (कियत्) कितना (बभूव) था ॥८॥"

भावार्थ :

टिप्पणी :८−(यत्) यत् किञ्चित् (परमम्) उच्चतमम् (अवमम्) नीचतमम् (यत् च) (मध्यमम्) मध्यतमम् (प्रजापतिः) परमेश्वरः (ससृजे) उत्पादयामास (विश्वरूपम्) नानाविधं जगत् (कियता) किं परिमाणेन (स्कम्भः) सर्वधारकः परमात्मा (प्रविवेश) प्रविष्टवान् (तत्र) जगति (यत्) यत्परिमाणं जगत् (न) निषेधे (प्राविशत्) प्रविष्टवान् परमेश्वरः (कियत्) किं परिमाणम् (तत्) जगत् (बभूव) ववृते ॥