Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 10 / 26

व॒शामे॒वामृत॑माहुर्व॒शां मृ॒त्युमुपा॑सते। व॒शेदं सर्व॑मभवद्दे॒वा म॑नु॒ष्या॒ असु॑राः पि॒तर॒ ऋष॑यः ॥ 26॥

Veda : Atharvaveda | Kand : 10 | Sukta : 10 | Paryay : | Mantra No : 26

In Hindi:

ऋषि : कश्यपः | देवता : वशा | छन्द : आस्तारपङ्क्तिः | स्वर :

विषय : ईश्वर शक्ति की महिमा का उपदेश।

पदपाठ : व॒शाम् । ए॒व । अ॒मृत॑म् । आ॒हु॒: । व॒शाम् । मृ॒त्युम् । उप॑ । आ॒स॒ते॒ । व॒शा । इ॒दम् । सर्व॑म् । अ॒भ॒व॒त् । दे॒वा: । म॒नु॒ष्या᳡: । असु॑रा: । पि॒तर॑: । ऋष॑य: ॥१०.२६॥

पदार्थ : (वशाम्) वशा [कामनायोग्य परमेश्वरशक्ति] को (एव) ही (अमृतम्) अमृत [अमरपन] (आहुः) वे [ऋषिः] बताते हैं, (वशाम्) वशा को (मृत्युम्) मृत्यु [समान] (उप आसते) वे मानते हैं। (वशा) वशा (इदम् सर्वम्) इस सब में (अभवत्) व्यापक हुई है, और (देवाः) देव [विजयी] (मनुष्यः) मनुष्य [मननशील], (असुराः) असुर [बुद्धिमान्], (पितरः) पितर [पालन करनेवाले] और (ऋषयः) ऋषि [सूक्ष्मदर्शी लोग] [जो हैं, उन सब में वह व्यापक हुई है] ॥२६॥"

भावार्थ :

टिप्पणी :२६−(वशाम्) कमनीयां परमेश्वरशक्तिम् (एव) (अमृतम्) अमरणम्। मोक्षम् (आहुः) कथयन्ति विद्वांसः (वशाम्) (मृत्युम्) मरणम्। दुःखभोगम् (उपासते) मन्यन्ते। पूजयन्ति (वशा) (इदम्) दृश्यमानम् (सर्वम्) जगत् (अभवत्) भू प्राप्तौ। व्याप्नोत् (देवाः) विजयिनः (मनुष्याः) मननशीलाः (असुराः) अ० १।१०।१। असुरत्वं प्रज्ञावत्त्वम्-निरु० १०।३४। प्रज्ञावन्तः (पितरः) पालकाः (ऋषयः) सूक्ष्मदर्शिनः। ये तान् अभवत् व्याप्नोत्-इति शेषः ॥