Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 11 / 1 / 6

अग्ने॒ सह॑स्वानभि॒भूर॒भीद॑सि॒ नीचो॒ न्यु᳡ब्ज द्विष॒तः स॒पत्ना॑न्। इ॒यं मात्रा॑ मी॒यमा॑ना मि॒ता च॑ सजा॒तांस्ते॑ बलि॒हृतः॑ कृणोतु ॥ 6॥

Veda : Atharvaveda | Kand : 11 | Sukta : 1 | Paryay : | Mantra No : 6

In Hindi:

ऋषि : ब्रह्मा | देवता : ब्रह्मौदनः | छन्द : उष्णिक् | स्वर :

विषय : ब्रह्मज्ञान से उन्नति का उपदेश।

पदपाठ : अग्ने॑ । सह॑स्वान् । अ॒भि॒ऽभू: । अ॒भि । इत् । अ॒सि॒ । नीच॑: । नि । उ॒ब्ज॒ । द्वि॒ष॒त: । स॒ऽपत्ना॑न् । इ॒यम् । मात्रा॑ । मीय॑माना । मि॒ता । च॒ । स॒ऽजा॒तान् । ते॒ । ब॒लि॒ऽहृत॑: । कृ॒णो॒तु॒ ॥१.६॥

पदार्थ : (अग्ने) हे तेजस्वी शूर ! (सहस्वान्) बलवान् और (अभिभूः) [वैरियों का] हरानेवाला तू (इत्) ही (अभि असि) [शत्रुओं को] हराता है, (नीचः) नीच (द्विषतः) द्वेष करनेवाले (सपत्नान्) शत्रुओं को (नि उब्ज) नीचे गिरा दे। (इयम्) यह (मीयमाना) नापी जाती हुई (च) और (मिता) नापी गई (मात्रा) मात्रा [परिमाण] (ते) तेरे (सजातान्) सजातियों [साथियों] को (बलिहृतः) [शत्रुओं से] बलि [उपहार वा कर] लानेवाला (कृणोतु) करे ॥६॥"

भावार्थ :

टिप्पणी :६−(अग्ने) हे तेजस्विन् शूर (सहस्वान्) बलवान् (अभिभूः) अभिभविता। वशयिता (इत्) एव (अभि असि) अभिभवसि (नीचः) ऋत्विग्दधृक्। पा० ३।२।५९। नि+अञ्चु गतिपूजनयोः क्तिन्। अनिदितां हल उपधायाः ङ्किति। पा० ६।४।२४। इति नलोपः। अचः। पा० ६।४।१३८। शसि भसंज्ञायाम्। अकारलोपे। चौ। पा० ६।३।१३८। इति दीर्घः। नीचगतीन्। अधमान् (न्युब्ज) उब्ज आर्जवे, निपूर्वात् अधोमुखीकरणे। अधोमुखान् कुरु (द्विषतः) अप्रियकारिणः (सपत्नान्) शत्रून् (इयम्) (मात्रा) हुयामाश्रुभसिभ्यस्त्रन्। उ० ४।१३८। माङ् माने-त्रन्। मात्रा मानात्-निरु० ४।२५। परिमाणम् (मीयमाना) क्रियमाणा (मिता) निर्मिता (च) (सजातान्) समानजन्मनः। बन्धून् (ते) तुभ्यम् (बलिहृतः) बलेरुपायनस्य करस्य वा हारकान् प्रापकान् शत्रुसकाशात् (कृणोतु) करोतु ॥