Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 11 / 4 / 15

प्रा॒णमा॑हुर्मात॒रिश्वा॑नं॒ वातो॑ ह प्रा॒ण उ॑च्यते। प्रा॒णे ह॑ भू॒तं भव्यं॑ च प्रा॒णे सर्वं॒ प्रति॑ष्ठितम् ॥ 15॥

Veda : Atharvaveda | Kand : 11 | Sukta : 4 | Paryay : | Mantra No : 15

In Hindi:

ऋषि : भार्गवो वैदर्भिः | देवता : प्राणः | छन्द : भुरिगनुष्टुप् | स्वर :

विषय : प्राण की महिमा का उपदेश।

पदपाठ : प्रा॒णम् । आ॒हु॒: । मा॒त॒रिश्वा॑नम् । वात॑: । ह॒ । प्रा॒ण: । उ॒च्य॒ते॒ । प्रा॒णे । ह॒ । भू॒तम् । भव्य॑म् । च॒ । प्रा॒णे । सर्व॑म् । प्रति॑ऽस्थितम् ॥६.१५॥

पदार्थ : (प्राणम्) प्राण [जीवनदाता परमेश्वर] को (मातरिश्वानम्) आकाश में व्यापक [सूत्रात्मा वायु के समान] (आहुः) वे बताते हैं, (वातः) वायु (ह) भी (प्राणः) [जीवनदाता परमेश्वर] (उच्यते) कहा जाता है। (प्राणे) प्राण [परमेश्वर] में (ह) ही (भूतम्) बीता हुआ (च) और (भव्यम्) होनहार [वस्तु] और (प्राणे) प्राण [परमेश्वर] में (सर्वम्) सब [जगत्] (प्रतिष्ठितम्) टिका हुआ है ॥१५॥"

भावार्थ :

टिप्पणी :१५−(प्राणम्) जीवनप्रदं परमेश्वरम् (आहुः) कथयन्ति (मातरिश्वानम्) अ० ५।१०।८। मातरि मानकर्तरि अन्तरिक्षे व्यापकं सूत्रात्मरूपम् (वातः) गमनशीलो वायुः (ह) अपि (प्राणः) सुपां सुलुक्०। पा० ७।१।३९। विभक्तेः सुः। प्राणे। जीवनप्रदे परमेश्वरे (उच्यते) कथ्यते (प्राणे) परमात्मनि (ह) एव (भूतम्) व्यतीतं पदार्थजातम् (भव्यम्) भविष्यत्। उत्पत्स्यमानं वस्तु (च) (प्राणे) (सर्वम्) समस्तं जगत् (प्रतिष्ठितम्) आश्रितम् ॥