Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 1 / 1

स॒त्यं बृ॒हदृ॒तमु॒ग्रं दी॒क्षा तपो॒ ब्रह्म॑ य॒ज्ञः पृ॑थि॒वीं धा॑रयन्ति। सा नो॑ भू॒तस्य॒ भव्य॑स्य॒ पत्न्यु॒रुं लो॒कं पृ॑थि॒वी नः॑ कृणोतु ॥ 1॥

Veda : Atharvaveda | Kand : 12 | Sukta : 1 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : अथर्वा | देवता : भूमिः | छन्द : त्रिष्टुप् | स्वर :

विषय : राज्य की रक्षा का उपदेश।

पदपाठ : स॒त्यम् । बृ॒हत् । ऋ॒तम् । उ॒ग्रम् । दी॒क्षा । तप॑: । ब्रह्म॑ । य॒ज्ञ: । पृ॒थि॒वीम् । धा॒र॒य॒न्ति॒ । सा । न॒: । भू॒तस्य॑ । भव्य॑स्य । पत्नी॑ । उ॒रुम् । लो॒कम् । पृ॒थि॒वी । न॒: । कृ॒णो॒तु॒ ॥१.१॥

पदार्थ : (बृहत्) बढ़ा हुआ (सत्यम्) सत्य कर्म, (उग्रम्) उग्र (ऋतम्) सत्यज्ञान, (दीक्षा) दीक्षा [आत्मनिग्रह], (ब्रह्म) ब्रह्मचर्य [वेदाध्ययन, वीर्यनिग्रह रूप] (तपः) तप [व्रतधारण] और (यज्ञः) यज्ञ [देवपूजा, सत्सङ्ग और दान] (पृथिवीम्) पृथिवी को (धारयन्ति) धारण करते हैं। (नः) हमारे (भूतस्य) बीते हुये और (भव्यस्य) होनेवाले [पदार्थ] की (पत्नी) पालन करनेवाली (सा पृथिवी) वह पृथिवी (उरुम्) चौड़ा (लोकम्) स्थान (नः) हमारे लिये (कृणोतु) करे ॥१॥"

भावार्थ :

टिप्पणी :१−(सत्यम्) यथार्थकर्म (बृहत्) महत् (ऋतम्) यथार्थज्ञानम् (उग्रम्) प्रचण्डम् (दीक्षा) अ० ८।५।१५। आत्मनिग्रहः (तपः) तपश्चरणम्। व्रतधारणम् (ब्रह्म) ब्रह्मचर्यम्। वेदाध्ययनवीर्यनिग्रहादिरूपव्रतम् (यज्ञः) देवपूजासत्सङ्गदानानि (पृथिवीम्) अ० १।२।१। प्रथेः षिवन्षवन्ष्वनः सम्प्रसारणं च। उ० १।१५०। प्रथ ख्यातौ विस्तारे च−षिवन् सम्प्रसारणं च। षित्त्वान्ङीष्। यः पर्थति सर्वं जगद्विस्तृणाति स पृथिवी.... परमेश्वरः−इति श्रीदयानन्दकृते सत्यार्थप्रकाशे। प्रथनात् पृथिवी−निरु० १।१३। भूमिः राज्यम् (धारयन्ति) धरन्ति (सा) (नः) अस्माकम् (भूतस्य) अतीतवस्तुनः (भव्यस्य) भविष्यत्पदार्थस्य (पत्नी) पालयित्री (उरुम्) विस्तृतम् (लोकम्) दर्शनीयं स्थानम् (पृथिवी) (नः) अस्मभ्यम् (कृणोतु) करोतु ॥