Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 1 / 10

याम॒श्विना॒वमि॑मातां॒ विष्णु॒र्यस्यां॑ विचक्र॒मे। इन्द्रो॒ यां च॒क्र आ॒त्मने॑ऽनमि॒त्रां शची॒पतिः॑। सा नो॒ भूमि॒र्वि सृ॑जतां मा॒ता पु॒त्राय॑ मे॒ पयः॑ ॥ 10॥

Veda : Atharvaveda | Kand : 12 | Sukta : 1 | Paryay : | Mantra No : 10

In Hindi:

ऋषि : अथर्वा | देवता : भूमिः | छन्द : त्र्यवसाना षट्पदा जगती | स्वर :

विषय : राज्य की रक्षा का उपदेश।

पदपाठ : याम् । अ॒श्विनौ॑ । अमि॑माताम् । विष्णु॑: । यस्या॑म् । वि॒ऽच॒क्र॒मे । इन्द्र॑: । याम् । च॒क्रे । आ॒त्मने॑ । अ॒न॒मि॒त्राम् । शची॒ऽपति॑: । सा । न॒: । भूमि॑: । वि । सृ॒ज॒ता॒म् । मा॒ता । पु॒त्राय॑ । मे॒ । पय॑: ॥१.१०॥

पदार्थ : (याम्) जिस [भूमि] को (अश्विनौ) दिन और राति ने (अमिमाताम्) नापा है, (यस्याम्) जिस [भूमि] पर (विष्णुः) व्यापक सूर्य ने (विचक्रमे) पाँव रक्खा है। (याम्) जिस [भूमि] को (शचीपतिः) वाणियों, कर्मों और बुद्धियों में चतुर (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले पुरुष] ने (आत्मने) अपने लिये (अनमित्राम्) शत्रुरहित (चक्रे) किया है। (सा भूमिः) वह भूमिः (नः) हमारे [हम सब के] हित के लिये (मे) मुझ को (पयः) अन्न [वा दूध] (वि) विविध प्रकार (सृजताम्) देवे, [जैसे] (माता) माता (पुत्राय) पुत्रको [अन्न वा दूध देती है] ॥१०॥"

भावार्थ :

टिप्पणी :१०−(याम्) भूमिम् (अश्विनौ) अ० २।२९।६। अहोरात्रौ−निरु० १२।१। (अमिमाताम्) माङ् माने शब्दे च−लङ्। परिमितां कृतवन्तौ (विष्णुः) व्यापकः सूर्यः (यस्याम्) भूम्याम् (विचक्रमे) पादविक्षेपं कृतवान् (इन्द्रः) ऐश्वर्यवान् जीवः (याम्) (चक्रे) कृतवान् (आत्मने) स्वहिताय (अनमित्राम्) शत्रुरहिताम् (शचीपतिः) अ० ३।१०।१२। शची=वाक्−निघ० १।११, कर्म−२।१, प्रज्ञा−३।९। शचीनां वाचां कर्मणां प्रज्ञानां वा पालकः (सा) (नः) अस्मभ्यम्। अस्माकं सर्वेषां हिताय (भूमिः) (वि) विविधम् (सृजताम्) ददातु (माता) जननी (पुत्राय) (मे) मह्यम् (पयः) अन्नम्। दुग्धम् ॥