Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 1 / 11

गि॒रय॑स्ते॒ पर्व॑ता हि॒मव॒न्तोऽर॑ण्यं ते पृथिवि स्यो॒नम॑स्तु। ब॒भ्रुं कृ॒ष्णां रोहि॑णीं वि॒श्वरू॑पां ध्रु॒वां भूमिं॑ पृथि॒वीमिन्द्र॑गुप्ताम्। अजी॒तोऽह॑तो॒ अक्ष॒तोऽध्य॑ष्ठां पृथि॒वीमह॑म् ॥ 11॥

Veda : Atharvaveda | Kand : 12 | Sukta : 1 | Paryay : | Mantra No : 11

In Hindi:

ऋषि : अथर्वा | देवता : भूमिः | छन्द : त्रयवसाना षट्पदा विराडष्टिः | स्वर :

विषय : राज्य की रक्षा का उपदेश।

पदपाठ : गि॒रय॑: । ते॒ । पर्व॑ता: । हि॒मऽव॑न्त: । अर॑ण्यम् । ते॒ । पृ॒थि॒व‍ि॒ । स्यो॒नम् । अ॒स्तु॒ । ब॒भ्रुम् । कृ॒ष्णाम् । रोहि॑णीम् । वि॒श्वऽरू॑पाम् । ध्रु॒वाम् । भूमि॑म् । पृ॒थि॒वीम् । इन्द्र॑ऽगुप्ताम् । अजी॑त: । अह॑त: । अक्ष॑त: । अधि॑ । अ॒स्था॒म् । पृ॒थि॒वीम् । अ॒हम् ॥१.११॥

पदार्थ : (पृथिवी) हे पृथिवि ! [हमारे लिये] (ते) तेरी (गिरयः) पहाड़ियाँ और (हिमवन्तः) हिमवाले (पर्वताः) पहाड़, और (ते) तेरा (अरण्यम्) वन भी (स्योनम्) मनभावना (अस्तु) होवे। (बभ्रुम्) पोषण करनेवाली, (कृष्णाम्) जोतने योग्य, (रोहिणीम्) उपजाऊ, (विश्वरूपाम्) अनेक [सुनैले, रुपैले आदि] रूपवाली, (ध्रुवाम्) दृढ़ स्वभाववाली, (भूमिम्) आश्रय स्थान, (पृथिवीम्) फैली हुई, (इन्द्रगुप्ताम्) इन्द्रों [ऐश्वर्यशाली वीर पुरुषों] से रक्षा कियी गई (पृथिवीम्) पृथिवी का (अजीतः) बिना जीर्ण हुए, (अहतः) बिना मारे गये और (अक्षतः) बिना घायल हुए (अहम्) मैं (अधि अस्थाम्) अधिष्ठाता बना हूँ ॥११॥"

भावार्थ :

टिप्पणी :११−(गिरयः) क्षुद्रपर्वताः (ते) तव (पर्वताः) विशालशैलाः (हिमवन्तः) प्रचुरहिमयुक्ताः (अरण्यम्) वनम् (ते) तव (पृथिवी) हे भूमे (स्योनम्) सुखदम् (अस्तु) (बभ्रुम्) भरणशीलाम्। पोषयित्रीम् (कृष्णाम्) कर्षणयोग्याम् (रोहिणीम्) रुहेश्च। उ० २।५५। रुह बीजजन्मनि प्रादुर्भावे च−इनन्, ङीष्। उत्पादनशीलाम् (विश्वरूपाम्) अनेकरूपयुक्ताम् (ध्रुवाम्) दृढाम् (भूमिम्) आश्रयभूताम् (पृथिवीम्) विस्तृताम् (इन्द्रगुप्ताम्) इन्द्रैः परमैश्वर्यवद्भिः शूरैः पालिताम् (अजीतः) ज्या वयोहानौ−क्त, नत्वादेशाभावः। अजीनः। अजीर्णः। जराहीनः (अहतः) अमारितः (अक्षतः) क्षतरहितः। व्रणादिशून्यः (अध्यष्ठाम्) अधिकृतवानस्मि (पृथिवीम्) वसुधाम् (अहम्) मनुष्यः ॥