Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 1 / 47

ये ते॒ पन्था॑नो ब॒हवो॑ ज॒नाय॑ना॒ रथ॑स्य॒ वर्त्मान॑सश्च॒ यात॑वे। यैः सं॒चर॑न्त्यु॒भये॑ भद्रपा॒पास्तं पन्था॑नं जयेमानमि॒त्रम॑तस्क॒रं यच्छि॒वं तेन॑ नो मृड ॥ 47॥

Veda : Atharvaveda | Kand : 12 | Sukta : 1 | Paryay : | Mantra No : 47

In Hindi:

ऋषि : अथर्वा | देवता : भूमिः | छन्द : षट्पदानुष्टुब्गर्भा परातिशक्वरी | स्वर :

विषय : राज्य की रक्षा का उपदेश।

पदपाठ : ये । ते॒ । पन्था॑न: । ब॒हव॑: । ज॒न॒ऽअय॑ना: । रथ॑स्य । वर्त्म॑ । अन॑स: । च॒ । यात॑वे । यै: । स॒म्ऽच॑रन्ति । उ॒भये॑ । भ॒द्र॒ऽपा॒पा: । तम् । पन्था॑नम् । ज॒ये॒म॒ । अ॒न॒मि॒त्रम् । अ॒त॒स्क॒रम् । यत् । शि॒वम् । तेन॑ । न॒: । मृ॒ड॒ ॥१.४७॥

पदार्थ : (ये) जो (ते) तेरे (बहवः) बहुत से (पन्थानः) मार्ग (जनायनाः) मनुष्यों के चलने योग्य हैं, [और जो] (रथस्य) रथ के (च) और (अनसः) छकड़े [वा अन्न] के (यातवे) चलने के लिये (वर्त्म) मार्ग है। (यैः) जिनसे (उभये) दोनों (भद्रपापाः) भले और बुरे [प्राणी] (संचरन्ति) चले चलते हैं, (तम्) उस (अनमित्रम्) शत्रुरहित और (अतस्करम्) तस्करशून्य (पन्थानम्) मार्ग को (जयेम) हम जीतें, (यत्) जो कुछ (शिवम्) मङ्गल है, (तेन) उससे (नः) हमें (मृड) सुखी कर ॥४७॥ "

भावार्थ :

टिप्पणी :४७−(ये) (ते) तव (पन्थानः) मार्गाः (बहवः) नानाप्रकाराः (जनायनाः) जन+अयनाः। मनुष्यैर्गन्तुं योग्याः (रथस्य) रमणीययानस्य (वर्त्म) मार्गः (अनसः) अन जीवने−असुन्। शकटस्य। अन्नस्य। (च) (यातवे) यातुम् (यैः) मार्गैः (संचरन्ति) विचरन्ति (उभये) द्वित्वविशिष्टाः (भद्रपापाः) साध्वसाधवः (तम्) पन्थानम् (जयेम) जयेन प्राप्नुयाम (अनमित्रम्) अशत्रुम् (अतस्करम्) अचौरम्। अन्यत् पूर्ववत्−म० ४६ ॥