Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 1 / 51

यां द्वि॒पादः॑ प॒क्षिणः॑ सं॒पत॑न्ति हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि। यस्यां॒ वातो॑ मात॒रिश्वेय॑ते॒ रजां॑सि कृ॒ण्वंश्च्या॒वयं॑श्च वृ॒क्षान्। वात॑स्य प्र॒वामु॑प॒वामनु॑ वात्य॒र्चिः ॥ 51॥

Veda : Atharvaveda | Kand : 12 | Sukta : 1 | Paryay : | Mantra No : 51

In Hindi:

ऋषि : अथर्वा | देवता : भूमिः | छन्द : त्र्यवसाना षट्पदानुष्टुब्गर्भा ककुम्मती शक्वरी | स्वर :

विषय : राज्य की रक्षा का उपदेश।

पदपाठ : याम् । द्वि॒ऽपाद॑: । प॒क्षिण॑: । स॒म्ऽपत॑न्ति । हं॒सा: । सु॒ऽप॒र्णा: । श॒कु॒ना: । वयां॑सि । यस्या॑म् । वात॑: । मा॒त॒रिश्वा॑ । ईयते॑ । रजां॑सि । कृ॒ण्वन् । च्य॒वय॑न् । च॒ । वृ॒क्षान् । वात॑स्य । प्र॒ऽवाम् । उ॒प॒ऽवान् । अनु॑ । वा॒ति॒ । अ॒र्चि: ॥१.५१॥

पदार्थ : (याम्) जिस पर (द्विपादः) दो पाँववाले (पक्षिणः) पक्षी [अर्थात्] (हंसाः) हंस, (सुपर्णाः) बड़े उड़नेवाले, [गरुड़ आदि], (शकुनाः) शक्तिवाले [गिद्ध चील आदि] (वयांसि) पक्षीगण (संपतन्ति) उड़ते रहते हैं। (यस्याम्) जिस पर (मातरिश्वा) आकाश में चलनेवाला (वातः) वायु (रजांसि) जलवाले बादलों को (कृण्वन्) बनाता हुआ (च) और (वृक्षान्) वृक्षों को (च्यावयन्) हिलाता हुआ (ईयते) चलता है। और (अर्चिः) प्रकाश (वातस्य) वायु के (प्रवाम्) फैलाव और (उपवाम् अनु) संकोच के साथ-साथ (वाति) चलता है ॥५१॥"

भावार्थ :

टिप्पणी :५१−(याम्) पृथिवीम् (द्विपादः) पादद्वयोपेताः (पक्षिणः) (संपतन्ति) उड्डीयन्ते (हंसाः) पक्षिविशेषाः (सुपर्णाः) शोभनपतना गरुडादयः (शकुनाः) शक्तिमन्तो गृध्रचिल्लादयः (वयांसि) पक्षिणः (यस्याम्) (वातः) वायुः (मातरिश्वा) अ–० ५।१०।८। अन्तरिक्षगामी (ईयते) गच्छति (रजांसि) अ–० ४।१।४। उदकं रज उच्यते−निरु–० ४।१९। उदकवतो मेघान् (कृण्वन्) कुर्वन्। रचयन् (च्यवयन्) सांहितिको दीर्घः। गमयन्। कम्पयन् (च) (वृक्षान्) (वातस्य) वायोः (प्रवाम्) वा गतौ−क्विप्। प्रकृष्टां गतिम्। प्रसृतिम्। (उपवाम्) समीपगतिम्। संकोचम् (अनु) अनुसृत्य (वाति) गच्छति (अर्चिः) प्रकाशः ॥