Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 13 / 1 / 12

स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दा घृ॒ताहु॑तः॒ सोम॑पृष्ठः सु॒वीरः॑। मा मा॑ हासीन्नाथि॒तो नेत्त्वा॒ जहा॑नि गोपो॒षं च॑ मे वीरपो॒षं च॑ धेहि ॥ 12॥

Veda : Atharvaveda | Kand : 13 | Sukta : 1 | Paryay : | Mantra No : 12

In Hindi:

ऋषि : ब्रह्मा | देवता : अध्यात्मम्, रोहितः, आदित्यः | छन्द : जगती | स्वर :

विषय : जीवात्मा और परमात्मा का उपदेश।

पदपाठ : स॒हस्र॑ऽशृङ्ग: । वृ॒ष॒भ: । जा॒तऽवे॑दा: । घृ॒तऽआ॑हुत: । सोम॑ऽपृष्ठ: । सु॒ऽवीर॑: । मा । मा॒ । हा॒सी॒त् । ना॒थि॒त: । न । इत् । त्वा॒ । जहा॑नि । गो॒ऽपो॒षम् । च॒ । मे॒ । वी॒र॒ऽपो॒षम् । च॒ । धे॒हि॒ ॥१.१२॥

पदार्थ : (सहस्रशृङ्गः) बड़े तेजवाला, (वृषभः) महाशक्तिमान्, (जातवेदाः) वेदों का उत्पन्न करनेवाला, (घृताहुतः) प्रकाश का देनेवाला, (सोमपृष्ठः) ऐश्वर्य का सींचनेवाला, (सुवीरः) बड़ा वीर (नाथितः) प्रार्थना किया गया [परमेश्वर] (मा) मुझको (मा हासीत्) न छोड़े। (त्वा) तुझको (न इत्) कभी नहीं (जहानि) मैं छोड़ूँ, (मे) मुझको (गोपोषम्) विद्याओं की वृद्धि (च च) और (वीरपोषम्) वीरों की पुष्टि (धेहि) दान कर ॥१२॥"

भावार्थ :

टिप्पणी :१२−(सहस्रशृङ्गः) अ० ४।५।१। बहुतेजाः (वृषभः) महाशक्तिमान् (जातवेदाः) जातानि उत्पन्नानि वेदांसि वेदा यस्मात् सः (घृताहुतः) प्रकाशप्रदः (सोमपृष्ठः) ऐश्वर्यसेचकः (सुवीरः) महाशूरः (मा) माम् (मा हासीत्) न त्यजतु (नाथितः) प्रार्थितः (नेत्) नैव (त्वा) (जहानि) त्यजानि (गोपोषम्) गवानां विद्यानां वृद्धिम् (च) (मे) मह्यम् (वीरपोषम्) शूराणां पोषणम् (च) (धेहि) देहि ॥