Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 13 / 1 / 16

अ॒यं व॑स्ते॒ गर्भं॑ पृथि॒व्या दिवं॑ वस्ते॒ऽयम॒न्तरि॑क्षम्। अ॒यं ब्र॒ध्नस्य॑ वि॒ष्टपि॒ स्व᳡र्लो॒कान्व्या᳡नशे ॥ 16॥

Veda : Atharvaveda | Kand : 13 | Sukta : 1 | Paryay : | Mantra No : 16

In Hindi:

ऋषि : ब्रह्मा | देवता : अध्यात्मम्, रोहितः, आदित्यः | छन्द : अनुष्टुप् | स्वर :

विषय : जीवात्मा और परमात्मा का उपदेश।

पदपाठ : अ॒यम् । व॒स्ते॒ । गर्भ॑म् । पृ॒थि॒व्या: । दिव॑म् । व॒स्ते॒ । अ॒यम् । अ॒न्तरि॑क्षम् । अ॒यम् । ब्र॒ध्नस्य॑ । वि॒ष्टपि॑ । स्व᳡: । लो॒कान् । वि। आ॒न॒शे॒ ॥१.१६॥

पदार्थ : (अयम्) यह [परमेश्वर] (पृथिव्याः) पृथिवी के (गर्भम्) गर्भ [उदर] को (वस्ते) ढकता है, (अयम्) यह (दिवम्) आकाश और (अन्तरिक्षम्) अन्तरिक्ष को (वस्ते) ढकता है। (अयम्) यह (ब्रध्नस्य) नियम के (विष्टपि) आश्रय पर (स्वः) सुख से (लोकान्) लोकों में (वि आनशे) व्यापा है ॥१६॥"

भावार्थ :

टिप्पणी :१६−(अयम्) व्यापकः परमेश्वरः (वस्ते) आच्छादयति (गर्भम्) उदरम् (पृथिव्याः) भूमेः (दिवम्) आकाशम् (वस्ते) (अयम्) (अन्तरिक्षम्) (अयम्) (ब्रध्नस्य) अ० १०।१०।३१। बन्ध बन्धने-नक्, ब्रधादेशः। नियमस्य (विष्टपि) वि+ष्टभि प्रतिबन्धे-क्विप्, भस्य पः। आश्रये (स्वः) सुखेन (लोकान्) (वि आनशे) अशू व्याप्तौ-लिट्। व्याप्तवान् ॥