Samveda/4
अग्निर्वृत्राणि जङ्घनद् द्रविणस्युर्विपन्यया। समिद्धः शुक्र आहुतः॥४
Veda : Samveda | Mantra No : 4
In English:
Seer : bharadvaajo baarhaspatyaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : agnirvRRitraaNi ja~NghanaddraviNasyurvipanyayaa . samiddhaH shukra aahutaH.4
Component Words : agniH. vRRitraaNi . ja~Nghanat . draviNasyuH . vipanyayaa . samiddhaH . sam. iddhaH . shukraH. aahutaH. aa . hutaH . .
In Hindi:
ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः
विषय : वरण किया हुआ परमात्मा पापों को सर्वथा नष्ट कर दे, यह प्रार्थना करते हैं।
पदपाठ : अग्निः। वृत्राणि । जङ्घनत् । द्रविणस्युः । विपन्यया । समिद्धः । सम्। इद्धः । शुक्रः। आहुतः। आ । हुतः । ४।
पदार्थ : (द्रविणस्युः) उपासकों को आध्यात्मिक धन और बल देने का अभिलाषी (अग्निः) तेजोमय परमात्मा (विपन्यया) विशेष स्तुति से (समिद्धः) संदीप्त, (शुक्रः) प्रज्वलित और (आहुतः) उपासकों की आत्माहुति से परिपूजित होकर (वृत्राणि) अध्यात्म-प्रकाश के आच्छादक पापों को (जङ्घनत्) अतिशय पुनः-पुनः नष्ट कर दे ॥४॥श्लेष से यज्ञाग्नि-पक्ष में भी इस मन्त्र की अर्थ-योजना करनी चाहिए ॥४॥
भावार्थ : याज्ञिक जनों द्वारा हवियों से आहुत प्रदीप्त यज्ञाग्नि जैसे रोग आदिकों को निःशेषरूप से विनष्ट कर देता है, वैसे ही परमात्मा-रूप अग्नि योगाभ्यासी जनों के द्वारा हार्दिक स्तुति से बार-बार संदीप्त तथा प्राण, इन्द्रिय, आत्मा, मन, बुद्धि आदि की हवियों से आहुत होकर उनके पाप-विचारों को सर्वथा निर्मूल कर देता है ॥४॥
In Sanskrit:
ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः
विषय : वृतः परमात्मा पापानि भृशं हन्यादिति प्रार्थ्यते।
पदपाठ : अग्निः। वृत्राणि । जङ्घनत् । द्रविणस्युः । विपन्यया । समिद्धः । सम्। इद्धः । शुक्रः। आहुतः। आ । हुतः । ४।
पदार्थ : (द्रविणस्युः) उपासकानां द्रविणः आध्यात्मिकं धनं बलं वा कामयमानः। द्रविणम् इति धननामसु बलनामसु च पठितम्। निघं० २।१०, २।९। एष शब्दः सकारान्तोऽपि वेदे प्रयुज्यते, यथा 'द्रविणोदाः' इत्यत्र। द्रविणः परेषां कामयते इति द्रविणस्युः। 'छन्दसि परेच्छायामिति वक्तव्यम्'। अ० ३।१।८ वा० इति परेच्छायां क्यच्। ‘क्याच्छन्दसि' अ० ३।२।१७० इत्युप्रत्ययः। 'दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति'। अ० ७।४।३६ इति सकारस्य रुत्वाभावो निपात्यते।३ (अग्निः) तेजोमयः परमात्मा (विपन्यया) विशेषस्तुत्या। पनतिरर्चतिकर्मा। निघं० ३।१४। पण व्यवहारे स्तुतौ च। (समिद्धः) संदीप्तः, शुक्रः ज्वलितः। शोचतिः ज्वलतिकर्मा। निघं० १।१६। (आहुतः) उपासकानाम् आत्माहुत्या परिपूजितः सन् (वृत्राणि) अध्यात्मप्रकाशाच्छादकानि पापानि। पाप्मा वै वृत्रः। श० ११।१।५।७। (जङ्घनत्) भृशं पुनः पुनर्हन्यात्। यङ्लुगन्ताद् हन्तेः लिङर्थे लेट् ॥४॥श्लेषेण मन्त्रोऽयं यज्ञाग्निपक्षेऽपि योजनीयः ॥४॥
भावार्थ : याज्ञिकैर्जनैर्हविर्भिराहुतः समिद्धो यज्ञाग्निर्यथा रोगादीन् नितरां विनाशयति तथा परमात्माग्निर्योगाभ्यासिभिर्जनैर्हार्दिकस्तुत्या हृदये भूयो भूयः संदीपितः प्राणेन्द्रियात्ममनोबुद्ध्यादिहविर्भिराहुतः संस्तेषां पापविचारान् सर्वथा निर्मूलयति ॥४॥
टिप्पणी:१. ऋग्वेदेऽयं मन्त्रो दयानन्दर्षिणा कलायन्त्राणां प्रेरणहेतुर्यानेषु वेगादिक्रियानिमित्तं यो भौतिकोऽग्निस्तत्पक्षे व्याख्यातः। २. ऋ० ६।१६।३४। य० ३३।९। साम० १३९६।दयानन्दर्षिणा 'अग्नि' शब्दाद् ऋग्वेदे विद्युद्रूपोऽग्निः, यजुर्वेदे च सूर्यादिरूपोऽग्निर्गृहीतः।३. द्रविणशब्दस्य, द्रविणस्भावो निपात्यते इति काशिकावृत्तिः। सायणोऽप्यत्र क्यचि सुगागम इत्याह। 'द्रविणं धनं, स्यु प्रत्ययो मतुबर्थे, द्रविणवानित्यर्थः। अथवा द्रविणं हविर्लक्षणं धनम् तदिच्छुः द्रविणस्युः हविष्काम इत्यर्थः' इति विवरणकारः। 'द्रविणः धनम्, हविर्लक्षणं धनं कामयमानः। ....द्रविणः शब्दः सकारान्तश्च विद्यते' इति भरतस्वामी। 'द्रविणस्युः द्रविणो धनमिच्छति द्रविणस्यति...हविर्लक्षणं धनमिच्छन्' इति य० ३३।९ भाष्ये महीधरः। 'द्रविणस्युः आत्मनो द्रविण इच्छुः’ इति ऋ० ६।१६।३४ भाष्ये दयानन्दः। एवं भरतस्वामिमहीधरदयानन्दाः सकारान्तत्वेनैव व्याचख्युः।