Samveda/548
सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः। मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः॥५४८
Veda : Samveda | Mantra No : 548
In English:
Seer : manuH saa.mvaraNaH | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : somaaH pavanta indavo.asmabhya.m gaatuvittamaaH . mitraaH svaanaa arepasaH svaadhyaH svarvidaH.548
Component Words : somaaH. pavante. indavaH.asmabhyam. gaatuvittamaaH.gaatu. vittamaaH. mitraaH.mi.traaHaa. svaanaaH. arepasaH.a.repasaH. svadhyaH.su.aadyaH. svarvidaH.svaH.vidaH..
In Hindi:
ऋषि : मनुः सांवरणः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अगले मन्त्र में यह वर्णन है कि कैसे परमानन्दरस हमें पवित्र करते हैं।
पदपाठ : सोमाः। पवन्ते। इन्दवः।अस्मभ्यम्। गातुवित्तमाः।गातु। वित्तमाः। मित्राः।मि।त्राःआ। स्वानाः। अरेपसः।अ।रेपसः। स्वध्यः।सु।आद्यः। स्वर्विदः।स्वः।विदः।४।
पदार्थ : (इन्दवः) प्रकाशमय अथवा रस से आर्द्र करनेवाले (सोमाः) परमानन्दरस (पवन्ते) हमें पवित्र करते हैं, जो (अस्मभ्यम्) हमारे लिए (गातुवित्तमाः) अतिशय सन्मार्ग को प्राप्त करानेवाले, (मित्राः) मित्रभूत, (स्वानाः) सद्गुणों की ओर प्रेरित करनेवाले, (अरेपसः) निष्पाप, निष्कलङ्क, निर्दोष, (स्वाध्यः) उत्कृष्ट ध्यान में सहायक और (स्वर्विदः) मोक्ष प्राप्त करानेवाले हैं ॥४॥इस मन्त्र में अनेक साभिप्राय विशेषणों का योग होने से परिकरालङ्कार है ॥४॥
भावार्थ : जो ब्रह्मानन्दरस जीवन में सन्मार्ग दिखानेवाले, मित्र के सदृश परम उपकारक, शुभगुण-प्रेरक, ध्यान में सहायक और मोक्षप्रापक होते हैं, वे पवित्रता देनेवाले क्यों न होंगे ॥४॥
In Sanskrit:
ऋषि : मनुः सांवरणः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : कीदृशाः परमानन्दरसाः अस्मान् पवित्रीकुर्वन्तीत्याह।
पदपाठ : सोमाः। पवन्ते। इन्दवः।अस्मभ्यम्। गातुवित्तमाः।गातु। वित्तमाः। मित्राः।मि।त्राःआ। स्वानाः। अरेपसः।अ।रेपसः। स्वध्यः।सु।आद्यः। स्वर्विदः।स्वः।विदः।४।
पदार्थ : (इन्दवः) प्रकाशमयाः रसेन क्लेदयितारो वा। इन्दुः इन्धेः उनत्तेर्वा। निरु० १०।४१। (सोमाः) परमानन्दरसाः (पवन्ते) अस्मान् पवित्रीकुर्वन्ति। ये (अस्मभ्यम्) अस्माकं कृते (गातुवित्तमाः) अतिशयेन सन्मार्गलम्भकाः, (मित्राः) मित्रभूताः। वेदे सुहृद्वाचको मित्रशब्दः पुंस्यपि दृश्यते। (स्वानाः) सुवानाः सद्गुणान् प्रति प्रेरयन्तः, (अरेपसः) निष्पापाः, निष्कलङ्काः, निर्दोषाः (स्वाध्यः) उत्कृष्टध्याने सहायकाः, (स्वर्विदः) मोक्षप्रापकाश्च सन्तीति शेषः। स्वः मोक्षसुखं वेदयन्ते प्रापयन्तीति तादृशाः ॥४॥अत्र साभिप्रायाणां बहूनां विशेषणानां योगात् परिकरालङ्कारः ॥४॥२
भावार्थ : ये ब्रह्मानन्दरसा जीवने सन्मार्गदर्शकाः सुहृद्वत् परमोपकारकाः शुभगुणप्रेरकाः ध्याने सहायकाः मोक्षप्रापकाश्च भवन्ति ते पावकाः कुतो न स्युः ॥४॥
टिप्पणी:१. ऋ० ९।१०१।१० ‘सुवाना’ इति पाठः। साम० ११०१।२. विशेषणैर्यत् साकूतैरुक्तिः परिकरस्तु सः (का० प्र० १०।८७), इति तल्लक्षणात्।