Samveda/680
अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः। ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः॥६८०
Veda : Samveda | Mantra No : 680
In English:
Seer : vasiShTho maitraavaruNiH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH
Subject : English Translation will be uploaded as and when ready.
Verse : abhi tvaa shuura nonumo.adugdhaa iva dhenavaH . iishaanamasya jagataH svardRRishamiishaanamindra tasthuShaH.680
Component Words : abhi . tvaa . shuura . naanumaH . adugdhaa . a . dugdhaa . iva . dhenavaH . iishaanaam . asya . jagataH . svadarsham . tvaH . dRRisham . iishaanam . indra . tasthuShaH .
In Hindi:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः
विषय : प्रथम ऋचा पूर्वार्चिक में २३३ क्रमाङ्क पर जगदीश्वर के पक्ष में व्याख्यात हो चुकी है। यहाँ अपने अन्तरात्मा को सम्बोधन है।
पदपाठ : अभि । त्वा । शूर । नानुमः । अदुग्धा । अ । दुग्धा । इव । धेनवः । ईशानाम् । अस्य । जगतः । स्वदर्शम् । त्वः । दृशम् । ईशानम् । इन्द्र । तस्थुषः ॥
पदार्थ : हे (शूर इन्द्र) शूरवीर हमारे अन्तरात्मन् ! हम (त्वा अभि) तेरे प्रति (नोनुमः) बारम्बार स्तुति-शब्द बोलते हैं। किस तरह? (अदुग्धाः न) दुही हुई (धेनवः इव) गौएँ जैसे दुहे जाने की उत्कण्ठा को प्रकट करने के लिए बारम्बार शब्द करती हैं। तू कैसा है? (अस्य) इस (जगतः) दूर-दूर तक जानेवाले मन का (ईशानम्) स्वामी, (स्वर्दृशम्) आनन्द का द्रष्टा और (तस्थुषः) शरीर में अजंगम रूप में स्थित अङ्ग-प्रत्यङ्गों का भी (ईशानम्) स्वामी है। अतः हम (नोनुमः) तेरे गुणों का बार-बार वर्णन करते हैं, तुझे (उद्बोधन) देते हैं ॥१॥इस मन्त्र में उपमालङ्कार है ॥१॥
भावार्थ : मनुष्य के आत्मा में महान् शक्तियाँ प्रसुप्त पड़ी हैं। सारे शरीरचक्र के अधिष्ठाता उस आत्मा को उद्बोधन देकर सभी लौकिक और आध्यात्मिक सिद्धियाँ प्राप्त की जा सकती हैं ॥१॥
In Sanskrit:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः
विषय : प्रथमा ऋक् पूर्वार्चिके २३३ क्रमाङ्के जगदीश्वरविषये व्याख्याता। अत्र स्वकीय आत्मा सम्बोध्यते।
पदपाठ : अभि । त्वा । शूर । नानुमः । अदुग्धा । अ । दुग्धा । इव । धेनवः । ईशानाम् । अस्य । जगतः । स्वदर्शम् । त्वः । दृशम् । ईशानम् । इन्द्र । तस्थुषः ॥
पदार्थ : हे (शूर इन्द्र) वीर अस्मदीय अन्तरात्मन् ! वयम् (त्वा अभि) त्वाम् अभिलक्ष्य नोनुमः भूयोभूयोऽतिशयेन स्तुमः। [णु स्तुतौ अदादिः, णू स्तवने वा तुदादिः, यङ्लुकि रुपम्।] कथमिव ? (अदुग्धाः) दोहनम् अप्राप्ताः (धेनवः इव) गावो यथा दोहनोत्कण्ठाद्योतनाय नोनुवन्ति रम्भायन्ते। कीदृशं त्वाम् ? (अस्य) एतस्य (जगतः) जङ्गमस्य मनसः। [ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः। ऋ० ६।९।५ दू॒रङ्गमं ज्यो॑तिषां ज्योतिरेकन्तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु। य० ३४।१ इति श्रुतेः।] (ईशानम्) स्वामिनम्, किञ्च (स्वर्दृशम्) स्वः आनन्दः तस्य द्रष्टारम्, अपि च (तस्थुषः) शरीरे अजङ्गमरूपे स्थितस्य अङ्गप्रत्यङ्गजातस्य (ईशानम्) स्वामिनं त्वां वयम् (नोनुमः) भूयो भूयो भृशं स्तुमः, उद्बोधयामः ॥१॥२अत्र उपमालङ्कारः ॥१॥
भावार्थ : मनुष्यस्यात्मनि महत्यः शक्तयः प्रसुप्ताः सन्ति। सर्वस्यापि शरीरचक्रस्याधिष्ठातारं तं समुद्बोध्य निखिला अपि लौकिक्य आध्यात्मिक्यश्च सिद्धयः प्राप्तुं पार्यन्ते ॥१॥
टिप्पणी:१. ऋ० ७।३२।२२, य० २७।३५, अथ० २०।१२१।१, साम० २३३।२. दयानन्दस्वामी मन्त्रमिममृग्भाष्ये परमात्मविषये यजुर्भाष्ये च राजधर्मविषये व्याचष्टे।