Samveda/681
न त्वावाअन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते। अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे।।(यी)।।॥६८१
Veda : Samveda | Mantra No : 681
In English:
Seer : vasiShTho maitraavaruNiH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH
Subject : English Translation will be uploaded as and when ready.
Verse : na tvaavaa.m anyo divyo na paarthivo na jaato na janiShyate . ashvaayanto maghavannindra vaajino gavyantastvaa havaamahe.681
Component Words : na . tvaavaan . anyaH . an . yaH . divyaH . na . paarthivaH . na . jaataH . na . janipyeta . ashvaayantaH . maghavan . indra . vaajinaH . gavyantaH . tvaa . havaamahe.
In Hindi:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : इस प्रकार अपने अन्तरात्मा को उद्बोधन देकर अब परमात्मा का आह्वान करते हैं।
पदपाठ : न । त्वावान् । अन्यः । अन् । यः । दिव्यः । न । पार्थिवः । न । जातः । न । जनिप्येत । अश्वायन्तः । मघवन् । इन्द्र । वाजिनः । गव्यन्तः । त्वा । हवामहे॥
पदार्थ : हे परमेश्वर ! (अन्यः) दूसरा (त्वावान्) तेरे समान (न दिव्यः) न आकाशवर्ती और (न पार्थिवः) न भूमिवर्ती कोई पदार्थ है। तेरे समान (न जातः) न कोई पदार्थ उत्पन्न हुआ है, (न जनिष्यते) न भविष्य में उत्पन्न होगा। हे (मघवन्) ऐश्वर्यशालिन् (इन्द्र) परमात्मन् ! (वाजिनः) बलवान् तथा पुरुषार्थी हम (अश्वायन्तः) श्रेष्ठ प्राणों की कामनावाले और (गव्यन्तः) इन्द्रियरूप गौओं के श्रेष्ठ ज्ञान व कर्म रूप दूध की कामनावाले होकर (त्वा) तुझे (हवामहे) पुकार रहे हैं ॥२॥इस मन्त्र में ‘उसके मुख के तुल्य कोई अन्य वस्तु नहीं है, न ही नेत्रों के तुल्य है’ इस अर्थवाली साहित्यदर्पण १०।२० में उदाहृत उक्ति के समान उपमानलुप्तोपमालङ्कार है ॥२॥
भावार्थ : अलौकिक तथा अद्वितीय परमात्मा की उपासना करके बलवान् और पुरुषार्थी होकर सब लोग ऐहलौकिक तथा पारलौकिक अभीष्ट को प्राप्त कर सकते हैं ॥२॥
In Sanskrit:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : एवं स्वात्मानमुद्बोध्य परमात्मानमाह्वयति।
पदपाठ : न । त्वावान् । अन्यः । अन् । यः । दिव्यः । न । पार्थिवः । न । जातः । न । जनिप्येत । अश्वायन्तः । मघवन् । इन्द्र । वाजिनः । गव्यन्तः । त्वा । हवामहे॥
पदार्थ : हे परमेश्वर ! (अन्यः) इतरः (त्वावान्) त्वत्सदृशः (न दिव्यः) न दिवि भवः, (न पार्थिवः) न पृथिव्यां भवः कश्चिद् अस्ति। (न जातः) न पूर्वमुत्पन्नः, (न जनिष्यते) न भाविनि काले कदाचित् उत्पत्स्यते। हे (मघवन्) ऐश्वर्यशालिन् (इन्द्र) परमात्मन् ! (वाजिनः) बलवन्तः पुरुषार्थिनो वयम् (अश्वायन्तः) श्रेष्ठान् प्राणान् कामयमानाः (गव्यन्तः) इन्द्रियधेनूनां श्रेष्ठं ज्ञानकर्मरूप दुग्धं च कामयमानाः (त्वा) त्वाम् (हवामहे) आह्वयामः ॥२॥२अत्र ‘तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम्’ इति दर्पणोदाहृतवद् (सा० द० १०।२०) उपमानलुप्तोपमालङ्कारः ॥२॥
भावार्थ : अलौकिकमद्वितीयं परमात्मानमुपास्य बलवन्तः पुरुषार्थिनश्च भूत्वा सर्वे ऐहलौकिकं पारलौकिकं च समीहितं प्राप्तुमर्हन्ति ॥२॥
टिप्पणी:१. ऋ० ७।३२।२३, य० २७।३६, अथ० २०।१२१।२।२. दयानन्दर्षिर्मन्त्रमिममृग्भाष्ये यजुर्भाष्ये च परमेश्वरेण तुल्योऽधिको वा कोऽपि नास्तीति विषये व्याख्यातवान्।