Samveda/765
अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया। वाजं गोमन्तमक्षरन्॥७६५
Veda : Samveda | Mantra No : 765
In English:
Seer : trita aaptayaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : abhi droNaani babhravaH shukraa RRitasya dhaarayaa . vaaja.m gomantamakSharan.765
Component Words : abhi .droNaani .babhravaH .shukraa .RRitasya .dhaarayaa .vaajam .gomantam .akSharan .
In Hindi:
ऋषि : त्रित आप्तयः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः
विषय : अगले मन्त्र में विद्वान् आचार्य के द्वारा दिये जाते हुए ज्ञानरसों का वर्णन है।
पदपाठ : अभि ।द्रोणानि ।बभ्रवः ।शुक्रा ।ऋतस्य ।धारया ।वाजम् ।गोमन्तम् ।अक्षरन् ॥
पदार्थ : आचार्य से दिये जाते हुए (बभ्रवः) धारण-पोषण करनेवाले, (शुक्राः) पवित्र और प्रदीप्त ज्ञानरसरूप सोम (ऋतस्य) सत्य की (धारया) धारा के साथ (द्रोणानि) शिष्यों के हृदय-रूप द्रोण-कलशों को (अभि) लक्ष्य करके तीव्रता से बहते हैं और (गोमन्तम्) प्रकाशमय (वाजम्) आत्मबल को (अक्षरन्) स्रवित करते हैं ॥२॥
भावार्थ : सुयोग्य आचार्य को पाकर विद्यार्थी लोग विद्यावान्, विवेकवान्, सत्यवान्, ज्योतिष्मान्,पवित्रहृदय तथा आत्मबलयुक्त होवें ॥२॥
In Sanskrit:
ऋषि : त्रित आप्तयः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथ विदुषाऽऽचार्येण दीयमानान् ज्ञानरसान् वर्णयति।
पदपाठ : अभि ।द्रोणानि ।बभ्रवः ।शुक्रा ।ऋतस्य ।धारया ।वाजम् ।गोमन्तम् ।अक्षरन् ॥
पदार्थ : आचार्येण प्रदीयमानाः (बभ्रवः) धारण-पोषणकर्त्तारः। [डुभृञ् धारणपोषणयोः, जुहोत्यादिः। बिभर्ति इति बभ्रुः। ‘कुर्भ्रश्च उ० १।२२’ इति कुः प्रत्ययः धातोश्च द्वित्वम्।] (शुक्राः) पवित्राः दीप्ताः वा ज्ञानरसरूपाः सोमाः। [शुचिर् पूतीभावे दिवादिः। शोचतिः ज्वलतिकर्मा निघं० १।१६, शोचिष् शब्दस्य दीप्तिनामसु पाठात् (निघं० १।१७) दीप्त्यर्थोऽपि। ऋज्रेन्द्र उ० २।१९ इति रन् प्रत्ययः। शुच्यते पवित्रीभवति, शोचति दीप्यते वा यः स शुक्रः।] (ऋतस्य) सत्यस्य (धारया) प्रवाहसन्तत्या (द्रोणानि) शिष्याणां हृदयरूपान् द्रोणकलशान् (अभि) अभिद्रवन्ति [उपसर्गश्रुतेर्योग्यक्रियाध्याहारः।] किञ्च (गोमन्तम्) प्रकाशवन्तम् (वाजम्) आत्मबलम् (अक्षरन्) स्रावयन्ति ॥२॥
भावार्थ : सुयोग्यमाचार्यं प्राप्य विद्यार्थिनो विद्यावन्तो विवेकवन्तः सत्यवन्तो ज्योतिष्मन्तः पवित्रहृदया आत्मबलयुक्ताश्च भवेयुः ॥२॥
टिप्पणी:१. ऋ० ९।३३।२