Samveda/847
मित्रहुवे पूतदक्षं वरुणं च रिशादसम्। धियं घृताचींसाधन्ता॥८४७
Veda : Samveda | Mantra No : 847
In English:
Seer : madhuchChandaa vaishvaamitraH | Devta : mitraavaruNau | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : mitra.m huve puutadakSha.m varuNa.m cha rishaadasam . dhiya.m ghRRitaachii.m saadhantaa.847
Component Words : mitram .mi .tram. huve .puutadakSham .puuta .dakSham .varuNam .cha .rishaadasam .dhiyam .dhRRitaachiim .saadhantaa.
In Hindi:
ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : मित्रावरुणौ | छन्द : गायत्री | स्वर : षड्जः
विषय : प्रथम मन्त्र में ब्रह्म-क्षत्र का आह्वान किया गया है।
पदपाठ : मित्रम् ।मि ।त्रम्। हुवे ।पूतदक्षम् ।पूत ।दक्षम् ।वरुणम् ।च ।रिशादसम् ।धियम् ।धृताचीम् ।साधन्ता॥
पदार्थ : मैं (पूतदक्षम्) पवित्र बल को देनेवाले (मित्रम्) सबके मित्र ब्राह्मण को और (रिशादसम्) हिंसक शत्रुओं को नष्ट करनेवाले (वरुणं च) शत्रुनिवारक क्षत्रिय को (हुवे) पुकारता हूँ। वे दोनों (घृताचीम्) राष्ट्र को तेज प्राप्त करानेवाली (धियम्) ज्ञानशृङ्खला एवं कर्मशृङ्खला को (साधन्तौ) सिद्ध करनेवाले होते हैं ॥१॥
भावार्थ : राष्ट्र में ब्राह्मण पवित्र ज्ञान-विज्ञान के बल को बढ़ाते हैं और क्षत्रिय शत्रुओं से राष्ट्र की रक्षा करते हैं, इसलिए उन्नति चाहनेवालों को दोनों का सदा सत्कार और पोषण करना चाहिए ॥१॥
In Sanskrit:
ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : मित्रावरुणौ | छन्द : गायत्री | स्वर : षड्जः
विषय : तत्रादौ ब्रह्मक्षत्रे आह्वयति।
पदपाठ : मित्रम् ।मि ।त्रम्। हुवे ।पूतदक्षम् ।पूत ।दक्षम् ।वरुणम् ।च ।रिशादसम् ।धियम् ।धृताचीम् ।साधन्ता॥
पदार्थ : अहम् (पूतदक्षम्) पूतः पवित्रः दक्षः बलं यस्य यस्माद् वा सः पूतदक्षः तम् (मित्रम्) सर्वमित्रं ब्राह्मणम्, (रिशादसम्) रिशन्ति हिंसन्ति ये ते रिशाः तान् हिंसकान् शत्रून् दस्यति नाशयति यः सः रिशादसः तम्। [रिश हिंसायाम्, दसु उपक्षये। ‘शा’ इत्यत्र दीर्घश्छान्दसः। रिशादसः रेशयदासिनः इति निरुक्तम् ६।१४।] (वरुणं च) शत्रुवारकं क्षत्रियं च (हुवे) आह्वयामि। तौ (घृताचीम्) राष्ट्रस्य तेजःप्रापयित्रीम्। [घृतं तेजः अञ्चति प्रापयतीति तम्। घृ क्षरणदीप्त्योः, अञ्चू गतौ।] (धियम्) ज्ञानशृङ्खलां कर्मशृङ्खलां च। [धीः इति कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९।] (साधन्ता) साधन्तौ, संसाधयन्तौ भवतः इति शेषः। [ब्रह्मैव मित्रः, क्षत्रं वरुणः। श० ४।१।४।१] ॥१॥२
भावार्थ : राष्ट्रे ब्राह्मणाः पवित्रं ज्ञानविज्ञानबलं वर्धयन्ति क्षत्रियाश्च शत्रुभ्यो राष्ट्रं रक्षन्तीत्युन्नतिकामैरुभये सदा सत्कर्तव्याः पोषणीयाश्च ॥१॥
टिप्पणी:१. ऋ० १।२।७, य० ३३।५७।२. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये सूर्यवाय्वोः प्राणापानयोश्च विषये, यजुर्भाष्ये च विद्वद्विषये व्याख्यातवान्।