Samveda/860
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः। सोमः सुत ऋच्यते प वमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते॥८६०
Veda : Samveda | Mantra No : 860
In English:
Seer : paraasharaH shaaktyaH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : soma.m gaavo dhenavo vaavashaanaaH soma.m vipraa matibhiH pRRichChamaanaaH . somaH suta RRichyate pavamaanaH some arkaastriShTubhaH sa.m navante.860
Component Words : somam .gaavaH .dhenavaH .vaavashaanaaH .somam .vipraa. vi .praaH .matibhiH .pRRichChamaanaaH .somaH .sutaH .RRichyate .puuyamaanaH .some .arkaaH .triShTubhaH .tri .stubhaH .sam .navante.
In Hindi:
ऋषि : पराशरः शाक्त्यः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में परमकवि परमात्मा का वर्णन है।
पदपाठ : सोमम् ।गावः ।धेनवः ।वावशानाः ।सोमम् ।विप्रा। वि ।प्राः ।मतिभिः ।पृच्छमानाः ।सोमः ।सुतः ।ऋच्यते ।पूयमानः ।सोमे ।अर्काः ।त्रिष्टुभः ।त्रि ।स्तुभः ।सम् ।नवन्ते॥
पदार्थ : (धेनवः) तृप्ति प्रदान करनेवाली (गावः) गौएँ या वाणियाँ (सोमम्) परमकवि परमात्मा की ही (वावशानाः) कामना करती हुई (यन्ति) जा रही हैं। (विप्राः) ज्ञानी लोग (मतिभिः) स्तोत्रों से (सोमम्) परमकवि परमात्मा को ही (पृच्छमानाः) पूछते हुए जा रहे हैं। (सुतः) ध्यान किया हुआ (सोमः) परमात्मा (पूयमानः) हृदय में प्रेरित होता हुआ (ऋच्यते) सहृदयों से स्तुति पाता है। (सोमे) उस परमात्मा में (त्रिष्टुभः) त्रिष्टुप् छन्दवाले अथवा तीन-तीन पादों से थमे हुए गायत्री छन्दवाले (अर्काः) मन्त्र (सं नवन्ते) सङ्गत हुए-हुए हैं, अर्थात् उसी का प्रतिपादन कर रहे हैं ॥२॥इस मन्त्र के पूर्वार्द्ध में असम्बन्ध में सम्बन्ध रूप अतिशयोक्ति अलङ्कार है ॥२॥
भावार्थ : जगत् में सब प्राणी और सब अचेतन पदार्थ अपने-अपने कर्म में लगे हुए मानो अपने रचयिता परमात्मा को ही खोज रहे हैं ॥२॥
In Sanskrit:
ऋषि : पराशरः शाक्त्यः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ परमकविं परमात्मानं वर्णयति।
पदपाठ : सोमम् ।गावः ।धेनवः ।वावशानाः ।सोमम् ।विप्रा। वि ।प्राः ।मतिभिः ।पृच्छमानाः ।सोमः ।सुतः ।ऋच्यते ।पूयमानः ।सोमे ।अर्काः ।त्रिष्टुभः ।त्रि ।स्तुभः ।सम् ।नवन्ते॥
पदार्थ : (धेनवः) प्रीणयित्र्यः (गावः) क्षीरिण्यः वाचो वा (सोमम्) परमकविं परमात्मानमेव (वावशानाः) कामयमानाः, यन्ति इति पूर्वमन्त्रादाकृष्यते। (विप्राः) ज्ञानिनः (मतिभिः) स्तोत्रैः (सोमम्) परमकविं परमात्मानमेव (पृच्छमानाः) पृच्छन्तः यन्ति। (सुतः) ध्यातः (सोमः) परमात्मा (पूयमानः) हृदये प्रेर्यमाणः। [पवते गतिकर्मा। निघं० २।१४।] (ऋच्यते) सहृदयैः स्तूयते। [ऋच स्तुतौ तुदादेः कर्मणि रूपम्।] (सोमे) तस्मिन् परमात्मनि (त्रिष्टुभः) त्रिष्टुप्छन्दस्काः त्रिपाद्गायत्रीछन्दस्काः वा (अर्काः) मन्त्राः। [अर्को मन्त्रो भवति यदनेनार्चन्ति। निरु० ५।५।२४।] (सं नवन्ते) संगताः (सन्ति), तमेव प्रतिपादयन्तीत्यर्थः। [नवते गतिकर्मा निघं० २।१४] ॥२॥अत्र पूर्वार्द्धेऽसम्बन्धे सम्बन्धरूपोऽतिशयोक्तिरलङ्कारः ॥२॥
भावार्थ : जगति सर्वे प्राणिनः सर्वे चाचेतनाः पदार्थाः स्वस्वकर्मणि संलग्नाः स्वरचयितारं परमात्मानमिवान्विष्यन्ति ॥२॥
टिप्पणी:१. ऋ० ९।९७।३५, ‘सोमः॑ सु॒तः पू॑यते अ॒ज्यमा॑नः॒’ इति तृतीयः पादः।