Samveda/1135
आ मित्रे वरुणे भगे मधोः पवन्त उर्मयः। विदाना अस्य शक्मभिः॥११३५
Veda : Samveda | Mantra No : 1135
In English:
Seer : asitaH kaashyapo devalo vaa | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : aa mitre varuNe bhage madhoH pavanta uurmayaH . vidaanaa asya shakmabhiH.1135
Component Words : aa .mitre .mi. tre .varuNe .bhage .madhoH .pavante .uurmayaH .vidaanaaH .asya .shakmabhiH.
In Hindi:
ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः
विषय : अब ज्ञान तथा ब्रह्मानन्द का विषय वर्णित करते हैं।
पदपाठ : आ ।मित्रे ।मि। त्रे ।वरुणे ।भगे ।मधोः ।पवन्ते ।ऊर्मयः ।विदानाः ।अस्य ।शक्मभिः॥
पदार्थ : (मधोः) मधुर ज्ञान-रस वा ब्रह्मानन्द-रस की (ऊर्मयः) तरङ्गें (मित्रे) मित्रभूत जीवात्मा में, (वरुणे) दोषनिवारक मन में और (भगे) सेवनीय प्राण में (आ पवन्ते) आती हैं। (विदानाः) उन तरङ्गों को प्राप्त करनेवाले लोग (अस्य) इस मधुर ज्ञान वा ब्रह्मानन्द की (शक्मभिः) शक्तियों से युक्त हो जाते हैं ॥८॥
भावार्थ : ज्ञान व ब्रह्मानन्द की तरङ्गों से शरीर में स्थित सब कुछ मन, बुद्धि, प्राण, इन्द्रियाँ आदि और रोम-रोम तरङ्गित हो जाता है ॥८॥
In Sanskrit:
ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथ ज्ञानस्य ब्रह्मानन्दस्य च विषयो वर्ण्यते।
पदपाठ : आ ।मित्रे ।मि। त्रे ।वरुणे ।भगे ।मधोः ।पवन्ते ।ऊर्मयः ।विदानाः ।अस्य ।शक्मभिः॥
पदार्थ : (मधोः) मधुरस्य ज्ञानरसस्य ब्रह्मानन्दरसस्य वा (ऊर्मयः) तरङ्गा (मित्रे) मित्रभूते जीवात्मनि, (वरुणे) दोषनिवारके मनसि, (भगे) सेवनीये प्राणे च (आ पवन्ते) आगच्छन्ति। (विदानाः) तान् तरङ्गान् प्राप्नुवन्तो जनाः (अस्य) मधुरस्य ज्ञानस्य ब्रह्मानन्दस्य वा (शक्मभिः२) सामर्थ्यैः, युज्यन्ते इति शेषः। [शक्लृ शक्तौ ‘अशिशकिभ्यां छन्दसि’ उ० ४।१४८ इति मनिन्।] ॥८॥
भावार्थ : ज्ञानस्य ब्रह्मानन्दस्य वा तरङ्गैः शरीररथं सर्वमपि मनोबुद्धिप्राणेन्द्रियादिकं रोम रोम च तरङ्गायते ॥८॥
टिप्पणी:१. ऋ० ९।७।८, ‘आ मि॒त्रावरु॑णा॒ भगं॒ मध्वः॑ पवन्त ऊ॒र्मयः॑ इति पूर्वार्धपाठः।२. शक्मभिः सुखैः इति सा०। शक्तैः कर्मभिः इति वि०।