Samveda/1153
प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः। हरिं क्रीडन्तमभ्यनूषत स्तुभोऽभि धेनवः पयसेदशिश्रयुः॥११५३
Veda : Samveda | Mantra No : 1153
In English:
Seer : sikataa nivaavarii | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH
Subject : English Translation will be uploaded as and when ready.
Verse : pra vo dhiyo mandrayuvo vipanyuvaH panasyuvaH sa.mvaraNeShvakramuH . hari.m kriiDantamabhyanuuShata stubho.abhi dhenavaH payasedashishrayuH.1153
Component Words : pra. vaH.dhiyaH .mandrayuShaH .vipanyuvaH .panasyuvaH .sa.mvaraNeShu .sam .varaNeShu .akramuH .harim .kriiDantam .abhi .anuuShata .stubhaH .abhi .dhenavaH .payasaa .it .ashikShayuH.
In Hindi:
ऋषि : सिकता निवावरी | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : अगले मन्त्र में परमात्मा की स्तुति के लिए मनुष्यों को प्रेरणा दी गयी है।
पदपाठ : प्र। वः।धियः ।मन्द्रयुषः ।विपन्युवः ।पनस्युवः ।संवरणेषु ।सम् ।वरणेषु ।अक्रमुः ।हरिम् ।क्रीडन्तम् ।अभि ।अनूषत ।स्तुभः ।अभि ।धेनवः ।पयसा ।इत् ।अशिक्षयुः॥
पदार्थ : हे मनुष्यो (वः) तुम्हारी (मन्द्रयुवः) आनन्दप्रद परमेश्वर की कामना करनेवाली, (पनस्युवः) दूसरों के प्रति उत्कृष्ट व्यवहार करने की इच्छुक, (विपन्युवः) विशेष स्तुतिशील (धियः) बुद्धियाँ (संवरणेषु) उपासना-यज्ञों में (प्र अक्रमुः) उपासना आरम्भ करें। (क्रीडन्तम्) जगत् की खेलें खेलते हुए, (हरिम्) हृदयहारी परमात्मा की (स्तुभः) अर्चना करनेवाले जन (अभ्यनूषत) पूजा करें। परमात्मा की दी हुई (धेनवः) गौएँ (पयसा इत्) दूध से (अशिश्रयुः) सबकी सेवा करती रहें, अथवा (धेनवः) वेदवाणियाँ (पयसा इत्) प्रतिपाद्य अर्थ रूप दूध से (अशिश्रयुः) सबकी सेवा करती रहें ॥२॥
भावार्थ : खगोल में बहुत से सूर्य, नक्षत्र, ग्रह, उपग्रह आदि लोक जो इधर-उधर घूम रहे हैं, वह मानो जगदीश्वर गेंदों से क्रीडा कर रहा है। वही खिलाड़ी अपने खेल से सब जड़-चेतन-रूप जगत् का संचालन कर रहा है। इस कारण हम क्यों न उसकी अर्चना और वन्दना करें ॥२॥
In Sanskrit:
ऋषि : सिकता निवावरी | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : अथ परमात्मस्तुत्यर्थं मनुष्यान् प्रेरयति।
पदपाठ : प्र। वः।धियः ।मन्द्रयुषः ।विपन्युवः ।पनस्युवः ।संवरणेषु ।सम् ।वरणेषु ।अक्रमुः ।हरिम् ।क्रीडन्तम् ।अभि ।अनूषत ।स्तुभः ।अभि ।धेनवः ।पयसा ।इत् ।अशिक्षयुः॥
पदार्थ : हे मनुष्याः ! (वः) युष्माकम् (मन्द्रयुवः) मन्द्रम् आनन्दप्रदं परमेश्वरं कामयमानाः, (पनस्युवः) उत्कृष्टव्यवहारेच्छुकाः।[पनः उत्कृष्टं व्यवहारं परेषां कामयन्ते यास्ताः। पण व्यवहारे स्तुतौ च।] (विपन्युवः) विशेषेण स्तवनशीलाः (धियः) प्रज्ञाः (संवरणेषु) उपासनायज्ञेषु। [संव्रियते परमेश्वरोऽत्र इति संवरणास्तेषु।] (प्र अक्रमुः) उपासनामारभेरन् [प्रपूर्वात् क्रमतेर्विध्यर्थे लङ्।] (क्रीडन्तम्) जगत्क्रीडाः कुर्वन्तम् (हरिम्) हृदयहारिणं परमात्मानम् (स्तुभः) अर्चयितारः [स्तोभतिः अर्चतिकर्मा। निघं० ३।१४।] (अभ्यनूषत) अभ्यर्चन्तु। परमात्मना दत्ताः (धेनवः) गावः (पयसा इत्) दुग्धेन खलु (अशिश्रयुः) सर्वान् सेवन्ताम्। [श्रिञ् सेवायाम्, भ्वादिः, लङि व्यत्ययेन शपः श्लुः।] (यद्वा) परमात्मना प्रदत्ताः (धेनवः) वेदवाचः। [धेनुः इति वाङ्नाम। निघं० १।११।] (पयसा इत्) प्रतिपादनीयार्थलक्षणेन (दुग्धेन) खलु (अशिश्रयुः) सर्वान् सेवन्ताम् ॥२॥
भावार्थ : खगोले बहवः सूर्यनक्षत्रग्रहोपग्रहादयो लोका यदितस्ततो भ्रमन्ति तन्मन्यामहे जगदीश्वरः कन्दुकैः क्रीडतीति। स एव क्रीडाकरः स्वक्रीडया सर्वं जडचेतनात्मकं जगत् सञ्चालयतीति स कुतो नास्माभिरर्चनीयो वन्दनीयश्च ॥२॥
टिप्पणी:१. ऋ० ९।८६।१७, सं॒वस॑नेष्वक्रमुः। सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभो॒ऽभि धे॒नवः॒ पय॑सेमशिश्रयुः इति पाठः।