Samveda/1176
ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनाम्। तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप्॥११७६
Veda : Samveda | Mantra No : 1176
In English:
Seer : pratardano daivodaasiH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : RRiShimanaa ya RRiShikRRitsvarShaaH sahasraniithaH padaviiH kaviinaam . tRRitiiya.m dhaama mahiShaH siShaasantsomo viraajamanu raajati ShTup.1176
Component Words : RRiShimanaaH .RRiShi .manaaH .yaH .RRiShikRRit .RRiShi .kRRit .svarShaaH .svaH .saaH .sahasraniithaH. sahasra .niithaH. padaviiH .pada. viiH .kaviinaam .tRRitiiyam. dhaama .mahiShaH .siShaasan. somaH .viraajam .vi .raajam .anu .raajati. stup.
In Hindi:
ऋषि : प्रतर्दनो दैवोदासिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में परमात्मा के गुण-कर्मों का वर्णन है।
पदपाठ : ऋषिमनाः ।ऋषि ।मनाः ।यः ।ऋषिकृत् ।ऋषि ।कृत् ।स्वर्षाः ।स्वः ।साः ।सहस्रनीथः। सहस्र ।नीथः। पदवीः ।पद। वीः ।कवीनाम् ।तृतीयम्। धाम ।महिषः ।सिषासन्। सोमः ।विराजम् ।वि ।राजम् ।अनु ।राजति। स्तुप्॥
पदार्थ : (यः) जो (ऋषिमनाः) ऋषि स्वभाववाला, (ऋषिकृत्) उपासकों को ऋषि बनानेवाला, (स्वर्षाः) आनन्दप्रदाता, (सहस्रनीथः) सहस्र नीतियोंवाला, (कवीनाम्) क्रान्तदर्शियों को (पदवीः) उच्च पद प्राप्त करानेवाला है, वह (महिषः) महान्, (स्तुप्) सबका आधारस्तम्भरूप (सोमः) जगदीश्वर (तृतीयं धाम) मुक्ति पद को (सिषासन्) देना चाहता हुआ (विराजम्) विशेष तेज से युक्त मनुष्य को (अनुराजति) अनुरञ्जित करता है ॥२॥यहाँ ऋषि की आवृत्ति में लाटानुप्रास तथा राज की आवृत्ति में यमक अलङ्कार है ॥२॥
भावार्थ : जो परमेश्वर ऋषिपद प्राप्त कराकर मोक्ष देता है, उसकी उपासना करके सब सौभाग्यवान् होवें ॥२॥
In Sanskrit:
ऋषि : प्रतर्दनो दैवोदासिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ परमात्मनो गुणकर्माणि वर्णयति।
पदपाठ : ऋषिमनाः ।ऋषि ।मनाः ।यः ।ऋषिकृत् ।ऋषि ।कृत् ।स्वर्षाः ।स्वः ।साः ।सहस्रनीथः। सहस्र ।नीथः। पदवीः ।पद। वीः ।कवीनाम् ।तृतीयम्। धाम ।महिषः ।सिषासन्। सोमः ।विराजम् ।वि ।राजम् ।अनु ।राजति। स्तुप्॥
पदार्थ : (यः ऋषिमनाः) ऋषिस्वभावः, (ऋषिकृत्) उपासकान् ऋषीन् करोतीति सः, (स्वर्षाः) आनन्दप्रदाता, (सहस्रनीथः) सहस्रनीतिः, (कवीनाम्) क्रान्तदर्शिनाम् (पदवीः) उच्चपदं प्रापयिता अस्ति, सः (महिषः) महान्, (स्तुप्) सर्वेषामाधारस्तम्भभूतः। [स्तुभु स्तम्भे, भ्वादिः।] (सोमः) जगदीश्वरः (तृतीयं धाम) मुक्तिपदम्। [प्रथमं धाम प्रकृतिः, द्वितीयं धाम जीवात्मा, तृतीयं च मोक्षः।] (सिषासन्) दातुमिच्छन्। [षणु दाने, सनि शत्रन्तः।] (विराजम्) विशेषेण दीप्तिमन्तं जनम् (अनुराजति) अनुरञ्जयति। [राजृ दीप्तौ, अत्र रञ्जनकर्मा] ॥२॥अत्र ‘ऋषि’ इत्यस्यावृत्तौ लाटानुप्रासः, ‘राज’ इत्यस्यावृत्तौ च यमकम् ॥२॥
भावार्थ : यः परमेश्वरः जनानृषिपदं प्रापय्य मोक्षं प्रयच्छति तमुपास्य सर्वे सौभाग्यवन्तो जायन्ताम् ॥२॥
टिप्पणी:१. ऋ० ९।९६।१८।