Samveda/1219
अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम्। यो मर्त्येषु निध्रुविर्ऋतावा तपुर्मूर्धा घृतान्नः पावकः॥१२१९
Veda : Samveda | Mantra No : 1219
In English:
Seer : vasiShTho maitraavaruNiH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : agni.m vo devamagnibhiH sajoShaa yajiShTha.m duutamadhvare kRRiNudhvam . yo martyeShu nidhruvirRRitaavaa tapurmuurdhaa ghRRitaannaH paavakaH.1219
Component Words : agnim .vaH .devam .agnibhiH .sajoShaaH .sa .joShaaH .yajiShTham .duutam .adhvare .kRRiNudhvam. yaH .martyeShu. nidhruviH. ni. dhruviH .RRitaavaa .tapurmuuraddhaa .tapuH .muurddhaa .ghRRitaannaH .ghRRita . annaH. paavakaH.
In Hindi:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : प्रारम्भ में पुरोहित के गुणों का वर्णन करते हैं।
पदपाठ : अग्निम् ।वः ।देवम् ।अग्निभिः ।सजोषाः ।स ।जोषाः ।यजिष्ठम् ।दूतम् ।अध्वरे ।कृणुध्वम्। यः ।मर्त्येषु। निध्रुविः। नि। ध्रुविः ।ऋतावा ।तपुर्मूरद्धा ।तपुः ।मूर्द्धा ।घृतान्नः ।घृत । अन्नः। पावकः॥
पदार्थ : हे मनुष्यो ! जो (अग्निभिः सजोषाः) गार्हपत्य, आहवनीय आदि अग्नियों से प्रीति रखनेवाला अर्थात् उनका ज्ञानी हो, उस (यजिष्ठम्) यज्ञ के अतिशय साधक, (अग्निम्) अग्रगण्य (देवम्) विद्वान् को (वः) तुम लोग (अध्वरे) यज्ञ में (दूतम्) दूत के समान माध्यम अर्थात् पुरोहित (कृणुध्वम्) बनाओ, (यः) जो विद्वान् (मर्त्येषु) मनुष्यों में (निध्रुविः) अत्यन्त स्थिर मतिवाला, (ऋतावा) सत्यनिष्ठ, (तपुर्मूर्धा) परिपक्व मस्तिष्कवाला (घृतान्नः) घी-दूध आदि सात्त्विक पौष्टिक पदार्थ खानेवाला और (पावकः) पवित्रकर्ता हो ॥१॥
भावार्थ : सुयोग्य ही किसी मनुष्य को अध्यात्म यज्ञ तथा बाह्य यज्ञ में पुरोहित रूप से वरना चाहिए ॥१॥
In Sanskrit:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : तत्रादौ पुरोहितगुणानाह।
पदपाठ : अग्निम् ।वः ।देवम् ।अग्निभिः ।सजोषाः ।स ।जोषाः ।यजिष्ठम् ।दूतम् ।अध्वरे ।कृणुध्वम्। यः ।मर्त्येषु। निध्रुविः। नि। ध्रुविः ।ऋतावा ।तपुर्मूरद्धा ।तपुः ।मूर्द्धा ।घृतान्नः ।घृत । अन्नः। पावकः॥
पदार्थ : हे मनुष्याः ! यः (अग्निभिः सजोषाः) गार्हपत्याहवनीयादिभिः अग्निभिः सप्रीतिः अस्ति, तज्ज्ञानवानस्तीति भावः, तम् (यजिष्ठम्) यज्ञस्य साधकतमम्, (अग्निम्) अग्रगण्यम् (देवम्) विद्वांसम् (वः) यूयम् (अध्वरे) यज्ञे (दूतम्) दूतवन्माध्यमम्, पुरोहितमिति भावः, (कृणुध्वम्) कुरुत, (यः) विद्वान् (मर्त्येषु) मनुष्येषु (निध्रुविः) निरतिशयस्थिरमतिः, (ऋतावा) सत्यनिष्ठः। [ऋतं सत्यम्, ततो मत्वर्थे ‘छन्दसीवनिपौ च वक्तव्यौ’ अ० ५।२।१०९ इति वनिप्। ऋतस्यान्तदीर्घश्छान्दसः।] (तपुर्मूर्धा२) परिपक्वमस्तिष्कः, (घृतान्नः) घृतदुग्धादिसात्त्विकपौष्टिकपदार्थ- भोक्ता, (पावकः) पवित्रतासम्पादकश्च विद्यते ॥१॥३
भावार्थ : सुयोग्य एव कश्चिज्जनोऽध्यात्मयज्ञे बाह्ययज्ञे च पुरोहितत्वेन वरणीयः ॥१॥
टिप्पणी:१. ऋ० ७।३।१।२. तपुर्मूर्धा तापकं तेजः—इति सा०। तपुः तापनशीलः, मूर्धा प्रधानभूतः—इति वि०। तदुभयं पदकारविरुद्धम्, पदपाठे ‘तपुर्मूर्धा’ इत्यस्य समस्तपदत्वेन स्वीकृतत्वात्।३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्युत्पक्षे व्याख्यातवान्।