Samveda/1306
त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः। त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः (ही)।। [धा. । उ नास्ति । स्व. ।]॥१३०६
Veda : Samveda | Mantra No : 1306
In English:
Seer : vasiShTho maitraavaruNiH | Devta : agniH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : tva.m varuNa uta mitro agne tvaa.m vardhanti matibhirvasiShThaaH . tve vasu suShaNanaani santu yuuya.m paata svastibhiH sadaa naH.1306
Component Words : tvam . varuNaH . uta . mitraH . mi . traH . agne . tvaam . varddhanti . matibhiH . vasiShThaaH . tve . iti . vasu . suShaNanaani . su . mananaani . santu . yuuvam . paata . svastibhiH . su . astibhiH . sadaa . naH.
In Hindi:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में परमात्मा की स्तुति करते हुए उससे प्रार्थना की गयी है।
पदपाठ : त्वम् । वरुणः । उत । मित्रः । मि । त्रः । अग्ने । त्वाम् । वर्द्धन्ति । मतिभिः । वसिष्ठाः । त्वे । इति । वसु । सुषणनानि । सु । मननानि । सन्तु । यूवम् । पात । स्वस्तिभिः । सु । अस्तिभिः । सदा । नः॥
पदार्थ : हे (अग्ने) अग्रनायक परमात्मन् ! (त्वम्) आप (वरुणः) पापों के निवारक (उत) और (मित्रः) विपत्ति से बचानेवाले मित्र हो। (वसिष्ठाः) अतिशय विद्या के ऐश्वर्य से युक्त विद्वान् उपासक लोग (मतिभिः) स्तुतियों से (त्वाम्) आपको (वर्धन्ति) बढ़ाते हैं, अर्थात् जन-जन में प्रसारित करते हैं। (त्वे) आपमें विद्यमान (वसु) ऐश्वर्य (सुषणनानि) सुप्राप्य (सन्तु) होवें। (यूयम्) आप (स्वस्तिभिः) योग-क्षेमों द्वारा (सदा) हमेशा (नः) हमारी (पात) रक्षा करते रहो ॥३॥
भावार्थ : जो कुछ भी ऐश्वर्य हमारे हाथ में है, वह सब परमात्मा द्वारा प्रदत्त ही है ॥३॥
In Sanskrit:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ परमात्मानं स्तुवन् तं प्रार्थयते।
पदपाठ : त्वम् । वरुणः । उत । मित्रः । मि । त्रः । अग्ने । त्वाम् । वर्द्धन्ति । मतिभिः । वसिष्ठाः । त्वे । इति । वसु । सुषणनानि । सु । मननानि । सन्तु । यूवम् । पात । स्वस्तिभिः । सु । अस्तिभिः । सदा । नः॥
पदार्थ : हे (अग्ने) अग्रनायक परमात्मन् ! (त्वम्, वरुणः) पापानां निवारकः (उत) अपि च (मित्रः) मरणात् त्राता सुहृत् असि। (वसिष्ठाः) अतिशयेन विद्यैश्वर्ययुक्ताः विद्वांसः उपासकाः (मतिभिः) स्तुतिभिः (त्वाम्) परमात्मानम् (वर्धन्ति) वर्धयन्ति, जने जने प्रसारयन्तीत्यर्थः। (त्वे) त्वयि विद्यमानानि (वसु) वसूनि ऐश्वर्याणि (सुषणनानि) सुसम्भजनानि (सन्तु) भवन्तु। (यूयम्) [आदरार्थम् बहुवचनम्।] (स्वस्तिभिः) योगक्षेमैः (सदा) नित्यम् (नः) अस्मान् (पात) रक्षत ॥३॥२
भावार्थ : यत्किञ्चिदप्यैश्वर्यमस्मद्धस्तगतं विद्यते तत्सर्वं परमात्मप्रदत्तमेव ॥३॥
टिप्पणी:१. ऋ० ७।१२।३।२. ऋग्भाष्ये दयानन्दस्वामिना मन्त्र एष विद्वद्विषये व्याख्यातः।