Samveda/1401
समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे। अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः (रि)।। [धा. । उ नास्ति । स्व. ।]॥१४०१
Veda : Samveda | Mantra No : 1401
In English:
Seer : vasiShTho maitraavaruNiH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : samu priyo mRRijyate saano avye yashastaro yashasaa.m kShaito asme . abhi svara dhanvaa puuyamaano yuuya.m paata svastibhiH sadaa naH.1401
Component Words : sam . u . priyaH . mRRijyate . saanau . avye . yashastaraH . yashasaam . kShaitaH . asmeiti . abhi . svara . dhanva . puuyamaanaH . yuuyam . paata . svastibhiH . su . astibhiH . sadaa . naH. .
In Hindi:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में विद्वान् को कहा गया है।
पदपाठ : सम् । उ । प्रियः । मृज्यते । सानौ । अव्ये । यशस्तरः । यशसाम् । क्षैतः । अस्मेइति । अभि । स्वर । धन्व । पूयमानः । यूयम् । पात । स्वस्तिभिः । सु । अस्तिभिः । सदा । नः॥ ।
पदार्थ : हे विद्वन् ! (क्षैतः) भूमि के निवासी, (यशसाम्) यशस्वियों के मध्य (यशस्तरः) अत्यधिक यशस्वी, (प्रियः) सबके प्रिय आप (अस्मे) हमारे लिए (अव्ये सानौ) राष्ट्र भूमि के उच्चपद पर (संमृज्यते उ) अलङ्कृत वा अभिषिक्त किये जा रहे हो। (पूयमानः) पवित्र किये जाते हुए आप (धन्व) अन्तरिक्ष को (अभि स्वर) जयघोषों से गुँजा दो। हे विद्वानो ! (यूयम्) आप लोग (स्वस्तिभिः) कल्याणों से (नः) हम राष्ट्रवासियों की (सदा) हमेशा (पात) रक्षा करते रहो ॥३॥
भावार्थ : राष्ट्र में पवित्र आचरणवाले विद्वानों को ही उच्च पदों पर प्रतिष्ठित करना चाहिए ॥३॥
In Sanskrit:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ विद्वानुच्यते।
पदपाठ : सम् । उ । प्रियः । मृज्यते । सानौ । अव्ये । यशस्तरः । यशसाम् । क्षैतः । अस्मेइति । अभि । स्वर । धन्व । पूयमानः । यूयम् । पात । स्वस्तिभिः । सु । अस्तिभिः । सदा । नः॥ ।
पदार्थ : हे विद्वन् ! (क्षैतः) क्षितिः पृथिवी तस्यां विद्यमानः (यशसाम्) यशस्विनां मध्ये (यशस्तरः) यशस्वितरः (प्रियः) सर्वेषां स्नेहभाजनभूतो भवान् (अस्मे) अस्मदर्थम् (अव्ये सानौ) राष्ट्रभूमेः उच्चपदे। [अविः पृथिवी तस्या इदम् अव्यम्।] (सं मृज्यते उ) अलङ्क्रियते अभिषिच्यते वा। (पूयमानः) पवित्रीक्रियमाणः त्वम् (धन्व) अन्तरिक्षम्। [धन्व इति अन्तरिक्षनाम। निघं० १।३। धन्व अन्तरिक्षं धन्वन्त्यस्मादापः निरु० ५।५।] (अभि स्वर) अभिशब्दय, जयघोषैरन्तरिक्षमापूरयेत्यर्थः। [स्वृ शब्दोपतापयोः, भ्वादिः।] हे विद्वांसः ! (यूयम् स्वस्तिभिः) कल्याणैः (नः) अस्मान् राष्ट्रवासिनः (सदा) नित्यम् (पात) रक्षत ॥३॥
भावार्थ : राष्ट्रे पवित्राचरणा विद्वांस एवोच्चपदेषु प्रतिष्ठापनीयाः ॥३॥
टिप्पणी:१. ऋ० ९।९७।३।