Samveda/1429
यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय। तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम्॥१४२९
Veda : Samveda | Mantra No : 1429
In English:
Seer : nRRimedha purumedhaavaa~Ngirasau | Devta : indraH | Metre : anuShTup | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : yajjaayathaa apuurvya maghavanvRRitrahatyaaya . tatpRRithiviimaprathayastadastabhnaa uto divam.1429
Component Words : yat . jaayathaaH . apuurvya . a . puurvya . maghavan . vRRitrahatyaaya . vRRitra . hatyaaya . tat . pRRithiviim . aprathayaH . tat . astamnaaH . uta . u . divam.
In Hindi:
ऋषि : नृमेध पुरुमेधावाङ्गिरसौ | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : प्रथम ऋचा पूर्वार्चिक में ६०१ क्रमाङ्क पर परमेश्वर के विषय में व्याख्यात की गयी थी। यहाँ भी वही विषय प्रकारान्तर से दर्शाया जा रहा है।
पदपाठ : यत् । जायथाः । अपूर्व्य । अ । पूर्व्य । मघवन् । वृत्रहत्याय । वृत्र । हत्याय । तत् । पृथिवीम् । अप्रथयः । तत् । अस्तम्नाः । उत । उ । दिवम्॥
पदार्थ : हे (अपूर्व्य) स्वयम्भू, (मघवन्) ऐश्वर्यशाली इन्द्र जगदीश्वर ! (यत्) क्योंकि, आप (वृत्रहत्याय) विघ्नों के विनाश के लिए (जायथाः) समर्थ हो, (तत्) इसी कारण, आप (पृथिवीम्)भूमण्डल को (अप्रथयः) फैला सके हो, (उत उ) और (तत्) इसी कारण (दिवम्) सूर्य को (अस्तभ्नाः) स्थिर कर सके हो ॥१॥
भावार्थ : जो विघ्नों को विनष्ट करने में समर्थ होता है, वही हाथ में लिये कार्यों में सफल होता है ॥१॥
In Sanskrit:
ऋषि : नृमेध पुरुमेधावाङ्गिरसौ | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ६०१ क्रमाङ्के परमेश्वरविषये व्याख्याता। अत्र स एव विषयः प्रकारान्तरेण निरूप्यते ॥
पदपाठ : यत् । जायथाः । अपूर्व्य । अ । पूर्व्य । मघवन् । वृत्रहत्याय । वृत्र । हत्याय । तत् । पृथिवीम् । अप्रथयः । तत् । अस्तम्नाः । उत । उ । दिवम्॥
पदार्थ : हे (अपूर्व्य) स्वयम्भूः ! [पूर्वैः कृतः पूर्व्यः। ‘पूर्वैः कृतमिनयौ च।’ अ० ४।४।११३ इति य प्रत्ययः। न पूर्वैः कृतः अपूर्व्यः स्वयम्भूरित्यर्थः।] (मघवन्) ऐश्वर्यशालिन् इन्द्र जगदीश्वर ! (यत्) यस्मात्, त्वम् (वृत्रहत्याय) विघ्नविनाशाय (जायथाः) अजायथाः, समर्थोऽभवः, (तत्) तस्मात् (पृथिवीम्) भूमण्डलम् (अप्रथयः) व्यस्तृणाः, (उत उ) अपि च (तत्) तस्मादेव च (दिवम्) सूर्यम् (अस्तभ्नाः) स्थिरीकृतवानसि ॥१॥
भावार्थ : यो विघ्नान् विहन्तुं समर्थो भवति स एव हस्तगृहीतेषु कार्येषु सफलो जायते ॥१॥
टिप्पणी:१. ऋ० ८।८९।५, ‘उ॒त द्याम्’ इति भेदः। ६०१।