Samveda/1430
तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः । तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम्॥१४३०
Veda : Samveda | Mantra No : 1430
In English:
Seer : nRRimedha purumedhaavaa~Ngirasau | Devta : indraH | Metre : anuShTup | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : tatte yaj~no ajaayata tadarka uta haskRRitiH . tadvishvamabhibhuurasi yajjaata.m yachcha jantvam.1430
Component Words : tat . te . yaj~naH . ajaayata . tat . arkaH . uta . haskRRitiH . tat . vishvam . abhibhuuH . abhi . bhuuH . asi . yat . jaatam . yat . cha . jantvam.
In Hindi:
ऋषि : नृमेध पुरुमेधावाङ्गिरसौ | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अगले मन्त्र में जगदीश्वर की महिमा का वर्णन है।
पदपाठ : तत् । ते । यज्ञः । अजायत । तत् । अर्कः । उत । हस्कृतिः । तत् । विश्वम् । अभिभूः । अभि । भूः । असि । यत् । जातम् । यत् । च । जन्त्वम्॥
पदार्थ : हे इन्द्र जगदीश्वर ! क्योंकि आप विघ्नों के विनाश में समर्थ हो (तत्) इसी कारण (ते) आपका (यज्ञः) सृष्टिरूप यज्ञ (अजायत) उत्पन्न हो सका है। (तत्) इसी कारण (अर्कः) सूर्य (उत) और (हस्कृतिः) बिजली का अट्टहास उत्पन्न हो सका है। (तत्) इसी कारण (विश्वम्) सब कुछ (यत् जातम्) जो पैदा हो चुका है। (यत् च जन्त्वम्) और जो भविष्य में पैदा होना है, उसे आप (अभिभूः असि) अपनी महिमा से तिरस्कृत किये हुए हो ॥२॥
भावार्थ : विघ्नों के विनाश में समर्थ होने से ही परमेश्वर सूर्य, चन्द्र, बिजली, नक्षत्र आदि से युक्त इस सब जगत् को बनाने और धारण करने में सफल होता है ॥२॥
In Sanskrit:
ऋषि : नृमेध पुरुमेधावाङ्गिरसौ | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अथ जगदीश्वरस्य महिमानमाह।
पदपाठ : तत् । ते । यज्ञः । अजायत । तत् । अर्कः । उत । हस्कृतिः । तत् । विश्वम् । अभिभूः । अभि । भूः । असि । यत् । जातम् । यत् । च । जन्त्वम्॥
पदार्थ : हे इन्द्र जगदीश्वर ! यस्मात् त्वं वृत्रहत्याय विघ्नविनाशाय समर्थोऽभूः (तत्) तस्मादेव (ते) तव (यज्ञः) सृष्टियज्ञः (अजायत) उदपद्यत, (तत्) तस्मादेव (अर्कः) सूर्यः (उत) अपि च (हस्कृतिः) विद्युतः हस्कारः अजायत। [हस्काराद् विद्युतस्परि। ऋ० १।२३।१२ इति वचनात्।] (तत्) तस्मादेव (विश्वम्) सर्वम् (यत् जातम्) यदुत्पन्नम् (यच्च जन्त्वम्) यच्च जनितव्यम् अस्ति, तत् त्वम्। [जनी प्रादुर्भावे धातोः ‘कृत्यार्थे तवैकेन्केन्यत्वनः। अ० ३।४।१३’ इति त्वन् प्रत्ययः।] (अभिभूः असि) स्वमहिम्ना अभिभूतवानसि ॥२॥
भावार्थ : विघ्नविनाशसमर्थत्वादेव परमेश्वरः सूर्यचन्द्रविद्युन्नक्षत्रादिमयं सर्वमिदं जगन्निर्मातुं धारयितुं च सफलो भवति ॥२॥
टिप्पणी:१. ८।८९।६।