Samveda/1457
मा नो अज्ञाता वृजना दुराध्योऽमाशिवासोऽव क्रमुः। त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि (ल)।। [धा. । उ नास्ति । स्व. ।]॥१४५७
Veda : Samveda | Mantra No : 1457
In English:
Seer : vasiShTho maitraavaruNiH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH
Subject : English Translation will be uploaded as and when ready.
Verse : maa no aj~naataa vRRijanaa duraadhyo3maashivaaso.ava kramuH . tvayaa vaya.m pravataH shashvatiirapo.ati shuura taraamasi.1457
Component Words : maa . naH . aj~naataaH . a . j~naataaH . vRRijanaaH . duraadhyaH . duH . aadhyaH . maa . ashivaasaH . a . shivaasaH . ava . kramuH . tvayaa . vayam . pravataH . shashvatii . apaH . ati . shuura . taraamasi.
In Hindi:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अगले मन्त्र में फिर परमात्मा से प्रार्थना है।
पदपाठ : मा । नः । अज्ञाताः । अ । ज्ञाताः । वृजनाः । दुराध्यः । दुः । आध्यः । मा । अशिवासः । अ । शिवासः । अव । क्रमुः । त्वया । वयम् । प्रवतः । शश्वती । अपः । अति । शूर । तरामसि॥
पदार्थ : हे (इन्द्र) जगदीश ! (मा) न तो (अज्ञाताः) अज्ञात (वृजनाः) बलवान् वा युद्ध करनेवाले (दुराध्यः) बुरे मनसूबे बाँधनेवाले शत्रु और (मा) न ही (अशिवासः) अभ्रद परिचित लोग (नः) हमें (अवक्रमुः) पददलित कर सकें। हे (शूर) वीर जगदीश्वर ! (त्वया) आपकी सहायता से (प्रवतः) उत्कृष्ट आचरणवाले (वयम्) हम आपके उपासक (शश्वतीः) बहुत सी (अपः) नदियों को अर्थात् नदियों के समान उमड़नेवाली बाधाओं को (अति तरामसि) पार कर लेवें ॥२॥
भावार्थ : जैसे शत्रु लोग, वैसे ही सम्बन्धी जन भी कभी-कभी पाप आदि कर्मों में लिप्त करते हैं और विघ्न भी धर्ममार्ग में बाधक होते हैं। परमेश्वर से बल पाकर उन सबको हम लाँघ जाएँ ॥२॥
In Sanskrit:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अथ पुनरपि परमात्मा प्रार्थ्यते।
पदपाठ : मा । नः । अज्ञाताः । अ । ज्ञाताः । वृजनाः । दुराध्यः । दुः । आध्यः । मा । अशिवासः । अ । शिवासः । अव । क्रमुः । त्वया । वयम् । प्रवतः । शश्वती । अपः । अति । शूर । तरामसि॥
पदार्थ : हे (इन्द्र) जगदीश ! (मा) नैव (अज्ञाताः) अपरिचिताः (वृजनाः२) बलवन्तो योद्धारो वा। [‘मध्योदात्तं तु वृजनं वर्तते बलयुद्धयोः’ इति वेङ्कटमाधवः३। पुंसि चायमन्तर्णीतमत्वर्थः। ‘कॄपॄवृजिमन्दिनिधाञः क्युः।’ उ० २।८२ इत्यनेन वृजी वर्जने धातोः क्युः प्रत्ययः।] (दुराध्यः) दुरभिसन्धयः शत्रवः, (मा) नैव च अशिवासः अभ्रद्राः परिचिताः जनाः (नः) अस्मान् (अवक्रमुः) आक्राम्येयुः। [अवपूर्वः क्रमु पादविक्षेपे, लिङ्, ‘बहुलं छन्दसि।’ अ० २।४।७३ इति शपो लुक्।] हे (शूर) वीर जगदीश्वर ! (त्वया) तव साहाय्येन (प्रवतः) प्रकृष्टाचरणाः। [प्रोपसर्गात् ‘उपसर्गाच्छन्दसि’ धात्वर्थे।’ अ० ५।१।११८ इत्यनेन वतिः प्रत्ययः।] (वयम्) तवोपासकाः (शश्वतीः) बह्वीः (अपः) नदीः, नदीवत् उद्वेल्लतीः बाधाः इत्यर्थः (अति तरामसि) पारयेम ॥२॥४
भावार्थ : यथा शत्रवस्तथैव सम्बन्धिजना अपि कदाचित् पापादिकर्मणि लिम्पन्ति, विघ्नाश्चापि धर्ममार्गे बाधका जायन्ते। परमेश्वराद् बलं प्राप्य तान् सर्वान् वयमुल्लङ्घेमहि ॥२॥
टिप्पणी:१. ऋ० ७।३२।२७, अथ० २०।७९।२, उभयत्र ‘माशि॑वासो॒ अव॑ क्रमुः’ इति सन्धिरहितः पाठः।२. वृजनाः हिंसकः—इति सा०। वक्रकर्माणः—इति वि०।३. देवराजयज्वना निघण्टुव्याख्याने वृजनपदे उद्धृतमिदम्।४. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रोऽयं ‘मनुष्याः समुद्रादिकं केन तरेयुः’ इति विषये व्याख्यातः।