Samveda/1484
वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति। अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु॥१४८४
Veda : Samveda | Mantra No : 1484
In English:
Seer : bRRihaddiva aatharvaNaH | Devta : indraH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : vaavRRidhaanaH shavasaa bhuuryaajaaH shatrurdaasaaya bhiyasa.m dadhaati . avyanachcha vyanachcha sasni sa.m te navanta prabhRRitaa madeShu.1484
Component Words : vaavRRidhaanaH . shavasaa . bhuuryojaaH . bhuuri . ojaaH . shatruH . daasaaya . bhiyasam . dadhaati . avyanat . a . vyanat . cha . tyanat . vi . anat . cha . sasni . sama . te . navanta . prabhRRitaa . pra . bhRRitaa . madeShu.
In Hindi:
ऋषि : बृहद्दिव आथर्वणः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में जगदीश्वर का प्रताप वर्णित है।
पदपाठ : वावृधानः । शवसा । भूर्योजाः । भूरि । ओजाः । शत्रुः । दासाय । भियसम् । दधाति । अव्यनत् । अ । व्यनत् । च । त्यनत् । वि । अनत् । च । सस्नि । सम । ते । नवन्त । प्रभृता । प्र । भृता । मदेषु॥
पदार्थ : (शवसा) बल से (वावृधानः) अतिशय बढ़ा हुआ, (भूर्योजाः) बहुत प्रतापी, (शत्रुः) दुष्टों का विनाश करनेवाला इन्द्र परमेश्वर (दासाय) यज्ञ आदि सत्कर्मों का विध्वंस करनेवाले को (भियसम्) भय (दधाति) देता है। हे इन्द्र परमात्मन् ! (अव्यनच्च) निर्जीव (व्यनत् च) और सजीव जगत् (सस्नि) आपसे ही संस्नात होता अर्थात् शुद्ध किया जाता है। हे देव ! (ते) आपके द्वारा उत्पन्न (मदेषु) आनन्दों में (प्रभृता) प्रकृष्टरूप से धारण और पुष्ट किये गये सब प्राणी (सन्नवन्त) आपकी स्तुति करते हैं ॥२॥
भावार्थ : अनन्त बलवाले जगदीश्वर से दुष्ट लोग भय खाते हैं और सज्जन उससे पालित-पोषित होकर श्रद्धा से उसकी बारम्बार स्तुति करते हैं ॥२॥
In Sanskrit:
ऋषि : बृहद्दिव आथर्वणः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ जगदीश्वरस्य प्रतापो वर्ण्यते।
पदपाठ : वावृधानः । शवसा । भूर्योजाः । भूरि । ओजाः । शत्रुः । दासाय । भियसम् । दधाति । अव्यनत् । अ । व्यनत् । च । त्यनत् । वि । अनत् । च । सस्नि । सम । ते । नवन्त । प्रभृता । प्र । भृता । मदेषु॥
पदार्थ : (शवसा) बलेन (वावृधानः) अतिशयेन वृद्धः। [लिटः कानजादेशः। चित्त्वादन्तोदात्तः।] (भूर्योजाः) बहुप्रतापः, (शत्रुः) दुष्टानां शातयिता इन्द्रः परमेश्वरः (दासाय) यज्ञादिसत्कर्मणां विध्वंसकाय (भियसम्) भयम् (दधाति) उत्पादयति। हे इन्द्र परमात्मन् ! (अव्यनत् च) अप्राणं च (व्यनत् च) सप्राणं च जगत्। [विविधम् अनिति प्राणिति इति व्यनत्, तद्विपरीतम् अव्यनत्, स्थावरं जङ्गमं च जगदिति भावः।] (सस्नि) त्वया संस्नातं सम्यक् शोधितं, भवतीति शेषः। [ष्णा शौचे, ‘आदृगमहनजनः किकिनौ लिट् च’ अ० ३।३।१७५ इति किन् प्रत्ययः।] हे देव ! (ते) तव, त्वया जनितेष्वित्यर्थः (मदेषु) हर्षेषु (प्रभृता) प्रकर्षेण धृतानि पोषितानि च सर्वाणि भूतजातानि (सन्नवन्त) त्वां संस्तुवन्ति ॥२॥
भावार्थ : अनन्तबलाज्जगदीश्वराद् दुष्टा बिभ्यति सज्जनाश्च तेन पालिताः पोषिताश्च भूत्वा श्रद्धापरवशास्तं भूयो भूयः स्तुवन्ति ॥२॥
टिप्पणी:१. ऋ० १०।१२०।३, अथ० ५।२।२ देवता वरुणः, २०।१०७।५।