Samveda/1504
प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः। तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः॥१५०४
Veda : Samveda | Mantra No : 1504
In English:
Seer : agnistaapasaH | Devta : vishvedevaaH | Metre : anuShTup | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : pra sa vishvebhiragnibhiragniH sa yasya vaajinaH . tanaye toke asmadaa samya~NvaajaiH pariivRRitaH.1504
Component Words : praH . saH . vishvebhiH . agnibhiH . agniH . saH . yasya . vaajinaH . tanaye . toke . asmat . aa . saya~N . vaajaiH . parivRRitaH . pari . vRRitaH.
In Hindi:
ऋषि : अग्निस्तापसः | देवता : विश्वेदेवाः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अगले मन्त्र में पुनः वही विषय है।
पदपाठ : प्रः । सः । विश्वेभिः । अग्निभिः । अग्निः । सः । यस्य । वाजिनः । तनये । तोके । अस्मत् । आ । सयङ् । वाजैः । परिवृतः । परि । वृतः॥
पदार्थ : (अग्निः) अग्नि नाम से प्रसिद्ध जगदीश्वर (सः) वह है, (यस्य) जिसके रचे हुए (वाजिनः) बलवान् मन, बुद्धि, प्राण, आदि और सूर्य, चन्द्र आदि हैं। (सः) वह (विश्वेभिः अग्निभिः) अपनी रची हुई आग, बिजली, सूर्य आदि सब अग्नियों के कारण (प्र) प्रशंसनीय बना हुआ है। (वाजैः) बलों से (परीवृतः) घिरा हुआ वह (अस्मत्) हममें और (तोके तनये) हमारे पुत्र, पौत्र आदियों में (सम्यङ्) भली-भाँति (आ) आये ॥२॥
भावार्थ : न केवल हम, प्रत्युत हमारी भावी सन्ततियाँ भी अध्यात्ममार्ग की पथिक होवें ॥२॥
In Sanskrit:
ऋषि : अग्निस्तापसः | देवता : विश्वेदेवाः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अथ पुनः स एव विषय उच्यते।
पदपाठ : प्रः । सः । विश्वेभिः । अग्निभिः । अग्निः । सः । यस्य । वाजिनः । तनये । तोके । अस्मत् । आ । सयङ् । वाजैः । परिवृतः । परि । वृतः॥
पदार्थ : (अग्निः) अग्निनाम्ना ख्यातो जगदीश्वरः (सः) असौ वर्तते (यस्य) यद्रचिताः (वाजिनः) बलवन्तो मनोबुद्धिप्राणादयः सूर्यचन्द्रादयश्च विद्यन्ते। (सः) असौ (विश्वेभिः अग्निभिः) स्वरचितैः समस्तैः वह्निविद्युत्सूर्यादिभिः अग्निभिः कारणैः (प्र) प्रशंसनीयोऽस्ति। (वाजैः) बलैः (परीवृतः) पर्यावृतः सः (अस्मत्) अस्मासु। [‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेर्लुक्।] (तोके तनये) अस्माकं पुत्रपौत्रादिषु च (सम्यङ्) समीचीनं यथा स्यात् तथा (आ) आगच्छेत् ॥२॥
भावार्थ : न केवलं वयं प्रत्युतास्माकं भाविसन्ततयोऽप्यध्यात्मपथपथिका भवेयुः ॥२॥