Samveda/1580
पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः। न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर (चु)।। [धा. । उ । स्व. ।]॥१५८०
Veda : Samveda | Mantra No : 1580
In English:
Seer : bhargaH praagaathaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH
Subject : English Translation will be uploaded as and when ready.
Verse : pauro ashvasya purukRRidgavaamasyutso deva hiraNyayaH . na kirhi daana.m pari mardhiShatve yadyadyaami tadaa bhara.1580
Component Words : pauraH . ashvasya . purukRRit . puru . kRRit . gavaam . asi . utsaH . ut . saH . deva . hiraNyayaH . na . kiH . hi . daanam . parimarddhiShat . pari . marddhiShat . tveiti . yadyat . yat . yat . yaami . tat . aa . bhara.
In Hindi:
ऋषि : भर्गः प्रागाथः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अगले मन्त्र में परमात्मा की स्तुति और उससे प्रार्थना है।
पदपाठ : पौरः । अश्वस्य । पुरुकृत् । पुरु । कृत् । गवाम् । असि । उत्सः । उत् । सः । देव । हिरण्ययः । न । किः । हि । दानम् । परिमर्द्धिषत् । परि । मर्द्धिषत् । त्वेइति । यद्यत् । यत् । यत् । यामि । तत् । आ । भर॥
पदार्थ : हे इन्द्र ! हे परमैश्वर्यशाली जगदीश्वर ! आप (अश्वस्य) सूर्य वा प्राण को (पौरः) पूर्ण करनेवाले (गवाम्) सूर्यकिरणों, पृथिवियों, इन्द्रियों वा धेनुओं की (बहुकृत्) बहुतायत करनेवाले (असि) हो। हे (देव) दान आदि गुणों से युक्त ! आप सम्पदाओं के (हिरण्ययः) ज्योतिर्मय (उत्सः) स्रोत हो। (त्वे) आपमें विद्यमान (दानम्) दान के गुण को (न किः हि) कोई भी नहीं (परि मर्धिषत्) नष्ट कर सकता है। इसलिए मैं (यत् यत्) जो-जो (यामि) आपसे माँगता हूँ (तत्) वह (आभर) मुझे प्रदान कर दो ॥२॥
भावार्थ : परमात्मा की कृपा से और अपने पुरुषार्थ से मनुष्य सारी दिव्य और लौकिक सम्पदा प्राप्त कर सकता है ॥२॥
In Sanskrit:
ऋषि : भर्गः प्रागाथः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अथ परमात्मानं स्तौति प्रार्थयते च।
पदपाठ : पौरः । अश्वस्य । पुरुकृत् । पुरु । कृत् । गवाम् । असि । उत्सः । उत् । सः । देव । हिरण्ययः । न । किः । हि । दानम् । परिमर्द्धिषत् । परि । मर्द्धिषत् । त्वेइति । यद्यत् । यत् । यत् । यामि । तत् । आ । भर॥
पदार्थ : हे इन्द्र ! हे परमैश्वर्यशालिन् जगदीश्वर ! त्वम् (अश्वस्य) आदित्यस्य प्राणस्य वा (पौरः) पूरयिता, (गवाम्) सूर्यकिरणानां पृथिवीनाम् इन्द्रियाणां धेनूनां वा (पुरुकृत्) बहुकृत् (असि) विद्यसे। हे (देव) दानादिगुणयुक्त ! त्वं सम्पदाम् (हिरण्ययः) ज्योतिर्मयः (उत्सः) स्रोतः असि। (त्वे) त्वयि विद्यमानम् (दानम्) दानगुणम् (न किः हि) न कश्चिदपि (परि मर्धिषत्) हिंसितुं शक्नोति। अतः, अहम् (यत् यत्) यत् किञ्चिदपि (यामि) याचामि। [यामि इति याच्ञाकर्मसु पठितम्। निघं० ३।१९।] (तत्) तत् सर्वम् (आ भर) मह्यम् आहर ॥२॥
भावार्थ : परमात्मनः कृपया स्वपुरुषार्थेन च मनुष्यः सर्वामपि दिव्यां लौकिकीं च सम्पदं प्राप्तुं शक्नोति ॥२॥
टिप्पणी:१. ऋ० ८।६१।६, अथ० २०।११८।२।