Samveda/1601
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो। समन्येषु ब्रवावहै (ह)।। [धा. । उ नास्ति । स्व. ।]॥१६०१
Veda : Samveda | Mantra No : 1601
In English:
Seer : shunaH shepa aajiigartiH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : uurdhvastiShThaa na uutaye.asminvaaje shatakrato . samanyeShu bravaavahai.1601
Component Words : suu . nRRitaa . uurdhvaH . tiShTha . naH . uutaye . asmin . vaaje . shatakrato . shata . krato . sam . anyeShu . an . yeShu . bravaavahai.
In Hindi:
ऋषि : शुनः शेप आजीगर्तिः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : अब परमेश्वर को संबोधन करते हैं।
पदपाठ : सू । नृता । ऊर्ध्वः । तिष्ठ । नः । ऊतये । अस्मिन् । वाजे । शतक्रतो । शत । क्रतो । सम् । अन्येषु । अन् । येषु । ब्रवावहै॥
पदार्थ : हे (शतक्रतो) अनन्त ज्ञानी और अनन्त कर्मों को करनेवाले इन्द्र परमात्मन् ! आप (अस्मिन् वाजे) इस देवासुरसङ्ग्राम में (नः ऊतये) हमारी रक्षा के लिए (ऊर्ध्वः) सजग (तिष्ठ) रहो।(अन्येषु) दूसरे अवसरों पर भी, आप और मैं (संब्रवावहै)आपस में अन्तरङ्ग संलाप किया करें ॥३॥
भावार्थ : जब-जब बाहरी या आन्तरिक देवासुर सङ्ग्राम उपस्थित होते हैं, तब-तब परमेश्वर-विश्वास को अपने अन्दर बलवान् करके, आत्मोद्बोधन पाकर सब विघ्नों को विफल करके विजय पानी चाहिए ॥३॥
In Sanskrit:
ऋषि : शुनः शेप आजीगर्तिः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथ परमेश्वरं सम्बोधयति।
पदपाठ : सू । नृता । ऊर्ध्वः । तिष्ठ । नः । ऊतये । अस्मिन् । वाजे । शतक्रतो । शत । क्रतो । सम् । अन्येषु । अन् । येषु । ब्रवावहै॥
पदार्थ : हे (शतक्रतो) अनन्तप्रज्ञ अनन्तकर्मन् इन्द्र परमात्मन् ! त्वम्(अस्मिन् वाजे) एतस्मिन् देवासुरसंग्रामे (नः ऊतये) अस्माकं रक्षायै (ऊर्ध्वः) जागरूकः (तिष्ठ) भव। (अन्येषु)इतरेष्वपि अवसरेषु त्वं च अहं च (संब्रवावहै) परस्परम् अन्तरङ्गं संलापं कुर्यावः ॥३॥२
भावार्थ : यदा यदा बाह्या आन्तरा वा देवासुरसंग्रामा उपतिष्ठन्ते तदा तदा परमेश्वरविश्वासं स्वात्मनि सबलं कृत्वाऽऽत्मोद्बोधनं प्राप्य सर्वानन्तरायान् विफलीकृत्य विजयः प्राप्तव्यः ॥३॥
टिप्पणी:१. ऋ० १।३०।६, अथ० २०।४५।३।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सभासेनाध्यक्षविषये व्याख्यातः।