Samveda/1608
अय सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे। सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये (रि)।। [धा. । उ नास्ति । स्व. ।]॥१६०८
Veda : Samveda | Mantra No : 1608
In English:
Seer : medhyaatithiH kaaNvaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH
Subject : English Translation will be uploaded as and when ready.
Verse : aya.m sahasramRRiShibhiH sahaskRRitaH samudra iva paprathe . satyaH so asya mahimaa gRRiNe shavo yaj~neShu vipraraajye.1608
Component Words : ayam . sahasram . RRiShibhiH . sahaskRRitaH . sahaH . kRRitaH . samudraH . sam . udraH . iva . paprathe . satyaH . saH . asya . mahimaa . gRRiNe . shavaH . yaj~neShu . vipraraajye . vipra . raajye. .
In Hindi:
ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अगले मन्त्र में फिर परमात्मा और आचार्य का विषय है।
पदपाठ : अयम् । सहस्रम् । ऋषिभिः । सहस्कृतः । सहः । कृतः । समुद्रः । सम् । उद्रः । इव । पप्रथे । सत्यः । सः । अस्य । महिमा । गृणे । शवः । यज्ञेषु । विप्रराज्ये । विप्र । राज्ये॥ ।
पदार्थ : (अयम्) यह परमेश्वर वा आचार्य (सहस्रम्) सहस्र बार (ऋषिभिः) तत्वदर्शी जनों द्वारा (सहस्कृतः) बल के साथ स्तुति किया गया (समुद्रः इव) समुद्र के समान (पप्रथे) यश से प्रख्यात होता है। (सः) वह (अस्य) इस परमेश्वर वा आचार्य की (महिमा) महिमा (सत्यः) सत्य है। मैं (विप्रराज्ये) विद्वानों के राज्य में (यज्ञेषु) उपासना-यज्ञों वा शिक्षा-यज्ञों में (शवः) इसके बल की (गृणे) स्तुति करता हूँ ॥२॥यहाँ उपमालङ्कार है ॥२॥
भावार्थ : जैसे समुद्र जल से विस्तीर्ण होता है, वैसे ही जगदीश्वर और आचार्य यश से प्रख्यात होते हैं ॥२॥
In Sanskrit:
ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अथ पुनरपि परमात्माऽऽचार्ययोर्विषयमाह।
पदपाठ : अयम् । सहस्रम् । ऋषिभिः । सहस्कृतः । सहः । कृतः । समुद्रः । सम् । उद्रः । इव । पप्रथे । सत्यः । सः । अस्य । महिमा । गृणे । शवः । यज्ञेषु । विप्रराज्ये । विप्र । राज्ये॥ ।
पदार्थ : (अयम्) एष (परमेश्वरः) आचार्यो वा (सहस्रम्) सहस्रवारम् (ऋषिभिः) तत्त्वदर्शिभिर्जनैः (सहस्कृतः) सहसा बलेन कृतः स्तुतः सन् (समुद्रः इव) सागरः इव (पप्रथे) यशसा प्रथितो भवति। (सः) असौ (अस्य) परमेश्वरस्य आचार्यस्य वा (महिमा) महत्त्वम् (सत्यः) अवितथो वर्तते। अहम् (विप्रराज्ये) विप्राणां विपश्चितां राज्ये (यज्ञेषु) उपासनायज्ञेषु शिक्षायज्ञेषु वा, (शवः) अस्य बलम् (गृणे) स्तौमि। [विप्रराज्ये इत्यत्र ‘अकर्मधारये राज्यम्’। अ० ६।२।१३० इत्युत्तरपदादिरुदात्तः] ॥२॥२अत्रोपमालङ्कारः ॥२॥
भावार्थ : यथा समुद्रो जलेन विस्तीर्णो भवति तथा जगदीश्वर आचार्यश्च यशसा ॥२॥
टिप्पणी:१. ऋ० ८।३।४, य० ३३।८३, अथ० २०।१०४।२।२. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजधर्मविषये व्याचष्टे।