Samveda/1636
स नो दूराच्चासाच्च नि मर्त्यादघायोः। पाहि सदमिद्विश्वायुः (टि)।। [धा. । उ । स्व. ।]॥१६३६
Veda : Samveda | Mantra No : 1636
In English:
Seer : shunaH shepa aajiigartiH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : sa no duuraachchaasaachcha ni martyaadaghaayoH . paahi sadamidvishvaayuH.1636
Component Words : saH . naH . duuraata . duH . aat . cha . aasaat . cha . ni . martyaat . aghaayoH . paahi . sadam . it . vishvaayuH . vishva . aayuH.
In Hindi:
ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः
विषय : आगे फिर वही विषय है।
पदपाठ : सः । नः । दूरात । दुः । आत् । च । आसात् । च । नि । मर्त्यात् । अघायोः । पाहि । सदम् । इत् । विश्वायुः । विश्व । आयुः॥
पदार्थ : हे परमात्मन् वा आचार्य ! (विश्वायुः) सौ वर्ष की पूर्ण आयु की प्राप्ति का उपदेश देनेवाले (सः) वह आप (दूरात् च) दूर से (आसात् च) और समीप से (अघायोः) दूसरों को पापी बनाना चाहनेवाले (मर्त्यात्) मनुष्य से (सदम् इत्) सदा ही (अस्मान्) हमें (नि पाहि) निरन्तर बचाते रहो ॥३॥
भावार्थ : परमेश्वर की प्रेरणा से और सद्गुरुओं के उपदेश से सब लोग पापात्माओं की कुसङ्गति छोड़कर, सत्सङ्ग करके नैतिक नियमों और स्वास्थ्य के नियमों का पालन करते हुए सदाचारी और दीर्घायु होवें ॥३॥
In Sanskrit:
ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथ पुनरपि तमेव विषयमाह।
पदपाठ : सः । नः । दूरात । दुः । आत् । च । आसात् । च । नि । मर्त्यात् । अघायोः । पाहि । सदम् । इत् । विश्वायुः । विश्व । आयुः॥
पदार्थ : हे परमात्मन् आचार्य वा ! (विश्वायुः) विश्वं सम्पूर्णं शतवार्षिकं आयुर्यस्मात् तथाविधः (सः) असौ त्वम् (दूरात् च) विप्रकृष्टदेशाच्च, (आसात् च) समीपाच्च (अघायोः) अघं पापं परेषामिच्छतीति अघायुः तस्मात्। [अघशब्दात् ‘छन्दसि परेच्छायां क्यच उपसंख्यानम्’। वा० ३।१।८ इति परेच्छायां क्यच्। ‘अश्वाघस्यात्’ अ० ७।४।३७ इत्यघस्याकारान्तादेशः।] (मर्त्यात्) मनुष्यात् (सदम् इत्) सदैव (नः) अस्मान् (निपाहि) निरन्तरं रक्ष ॥३॥२
भावार्थ : परमेशप्रेरणया सद्गुरूणामुपदेशेन च सर्वे जनाः पापात्मनां कुसंगतिं विहाय सत्सङ्गं कृत्वा नैतिकनियमान् स्वास्थ्यनियमांश्च पालयन्तः सदाचारिणो दीर्घायुषश्च भवेयुः ॥३॥
टिप्पणी:१. ऋ० १।२७।३।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं जगदीश्वरपक्षे विद्वत्पक्षे च व्याचष्टे।