Samveda/1680
त सखायः पुरूरुचं वयं यूयं च सूरयः। अश्याम वाजगन्ध्य सनेम वाजपस्त्यम्॥१६८०
Veda : Samveda | Mantra No : 1680
In English:
Seer : ambariiSho vaarShaagiraH RRijishvaa bhaaradvaajashch | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : ta.m sakhaayaH puruurucha.m vaya.m yuuya.m cha suurayaH . ashyaama vaajagandhya.m sanema vaajapastyam.1680
Component Words : tam . sakhaayaH . sa . khaayaH . pururucham . puru . rucham . vayam . yuuyam . cha . suurayaH . ashvaam . vaajagandhyam . vaaja . gandhyam . sanem . vaajapastyam . vaaja . pastyam . pari . tyam.
In Hindi:
ऋषि : अम्बरीषो वार्षागिरः ऋजिश्वा भारद्वाजश्च | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : आगे फिर वही विषय है।
पदपाठ : तम् । सखायः । स । खायः । पुरुरुचम् । पुरु । रुचम् । वयम् । यूयम् । च । सूरयः । अश्वाम् । वाजगन्ध्यम् । वाज । गन्ध्यम् । सनेम् । वाजपस्त्यम् । वाज । पस्त्यम् । परि । त्यम्॥
पदार्थ : हे (सखायः) साथियो ! (वयं यूयं च सूरयः) हम और तुम मेधावी उपासक (तम्) उस प्रसिद्ध, (पुरूरुचम्) बहुत तेजस्वी, (वाजगन्ध्यम्) आत्मबल को ग्रहण करानेवाले रसागार सोम प्रभु को (अश्याम) प्राप्त कर लें, (वाजपस्त्यम्) विज्ञान की प्राप्ति करानेवाले शुभगुणकर्मप्रेरक सोम जगदीश्वर को (सनेम) भज लें ॥२॥
भावार्थ : सब साथी मिलकर श्रद्धा से तरङ्गित होते हुए यदि परमात्मा की उपासना करते हैं, तो तेज, बल, विज्ञान आदि की प्राप्ति निरन्तर होती रहती है ॥२॥
In Sanskrit:
ऋषि : अम्बरीषो वार्षागिरः ऋजिश्वा भारद्वाजश्च | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अथ पुनरपि तमेव विषयमाह।
पदपाठ : तम् । सखायः । स । खायः । पुरुरुचम् । पुरु । रुचम् । वयम् । यूयम् । च । सूरयः । अश्वाम् । वाजगन्ध्यम् । वाज । गन्ध्यम् । सनेम् । वाजपस्त्यम् । वाज । पस्त्यम् । परि । त्यम्॥
पदार्थ : हे (सखायः) सुहृदः (वयं यूयं च सूरयः) वयं यूयं च मेधाविनः उपासकाः (तम्) प्रसिद्धम् (पुरूरुचम्) बहुदीप्तिम्, (वाजगन्ध्यम्) वाजस्य आत्मबलस्य गन्ध्यं ग्रहणं यस्मात् तथाविधम् सोमं रसागारं परमेश्वरम्, (अश्याम) प्राप्नुयाम, (वाजपस्त्यम्) वाजस्य विज्ञानस्य पस्त्यं पतनं प्राप्तिर्यस्मात् तादृशम् सोमं शुभगुणकर्मप्रेरकं जगदीश्वरम् (सनेम) संभजेमहि।[वाजपस्त्यं वाजपतनम्। ‘सनेम वाजपस्त्यम्’ इत्यपि निगमो भवति। वाजगन्ध्यं गध्यत्युत्तरपदम्। ‘अश्याम वाजगन्ध्यम्’ इत्यपि निगमो भवति। गध्यं गृह्णातेः। इति निरुक्तम् (५।१५)] ॥२॥
भावार्थ : सर्वे सुहृदः संभूय श्रद्धया तरङ्गिताः सन्तः परमात्मानमुपासते चेत् तर्हि तेजोबलविज्ञानादीनां प्राप्तिः सततं जायते ॥२॥
टिप्पणी:१. ऋ० ९।९८।१२, ‘तं स॑खायः पुरो॒रुचं यू॒यं व॒यं च॑ सू॒रयः’ इति पूर्वार्धपाठः।