Samveda/1690
स मामृजे तिरो अण्वानि मेष्यो मीढ्वांत्सप्तिर्न वाजयुः। अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिर्ऋक्वभिः (तु)।। [धा. । उ । स्व. ।]॥१६९०
Veda : Samveda | Mantra No : 1690
In English:
Seer : saptarShayaH | Devta : pavamaanaH somaH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH
Subject : English Translation will be uploaded as and when ready.
Verse : sa maamRRije tiro aNvaani meShyo miiDvaantsaptirna vaajayuH . anumaadyaH pavamaano maniiShibhiH somo viprebhirRRikvabhiH.1690
Component Words : saH . maamRRije . tiraH . aNvaani . meShyaH . miiDhavaan . saptiH . na . vaajayuH . anumaadya . anu . maadyaH . pavamaanaH . maniiShibhiH . somaH . viprebhiH . vi . prebhiH . RRikabhiH.
In Hindi:
ऋषि : सप्तर्षयः | देवता : पवमानः सोमः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : आगे फिर जीवात्मा का विषय है।
पदपाठ : सः । मामृजे । तिरः । अण्वानि । मेष्यः । मीढवान् । सप्तिः । न । वाजयुः । अनुमाद्य । अनु । माद्यः । पवमानः । मनीषिभिः । सोमः । विप्रेभिः । वि । प्रेभिः । ऋकभिः॥
पदार्थ : (वाजयुः) अन्न के इच्छुक (सप्तिः न) घोड़े के समान (वाजयुः) बल और विज्ञान का इच्छुक, (मीढ्वान्) अन्यों पर सुख सींचनेवाला, (मेष्यः) ज्ञान का सिञ्चन करनेवाली वेदवाणी के (अण्वानि) सूक्ष्म विज्ञान-तत्त्वों को (तिरः) प्राप्त करके (पवमानः) स्वयं को पवित्र करता हुआ (सः) वह (सोमः) जीवात्मा (मनीषिभिः) मननशील (ऋक्वभिः) वेदज्ञ (विप्रेभिः) विद्वानों के द्वारा (अनुमाद्यः) हर्षित किये जाने योग्य होता हुआ (मामृजे) श्रेष्ठ गुण-कर्मों से अलङ्कृत किया जाता है ॥२॥यहाँ श्लिष्टोपमा अलङ्कार है ॥२॥
भावार्थ : सब मनुष्यों को चाहिए कि वेद पढ़कर, अपने आत्मा की शक्ति को जान कर, सदाचारी विद्वानों के सङ्ग से अपनी उन्नति निरन्तर किया करें ॥२॥
In Sanskrit:
ऋषि : सप्तर्षयः | देवता : पवमानः सोमः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अथ पुनरपि जीवात्मविषयं प्राह।
पदपाठ : सः । मामृजे । तिरः । अण्वानि । मेष्यः । मीढवान् । सप्तिः । न । वाजयुः । अनुमाद्य । अनु । माद्यः । पवमानः । मनीषिभिः । सोमः । विप्रेभिः । वि । प्रेभिः । ऋकभिः॥
पदार्थ : (वाजयुः) अन्नकामः (सप्तिः न) अश्वः इव (वाजयुः) बलविज्ञानकामः, (मीढ्वान्) अन्येषु सुखस्य सेक्ता, (मेष्यः) ज्ञानसेक्त्र्याः वेदवाचः। [मिषु सेचने भ्वादिः। मेषति ज्ञानं सिञ्चतीति मेषी वेदवाक् तस्याः।] (अण्वानि) सूक्ष्माणि विज्ञानतत्त्वानि (तिरः) प्राप्य। [तिरः सतः इति प्राप्तस्य निरु० ३।२०।] (पवमानः) स्वात्मानं पवित्रयन् (सः) असौ (सोमः) जीवात्मा (मनीषिभिः) मननशीलैः (ऋक्वभिः) वेदज्ञैः। [ऋचो येषां सन्तीति ते ऋक्वाणः तैः। ‘छन्दसीवनिपौ’ अ० ५।२।१०९ इति वनिप् प्रत्ययः।] (विप्रेभिः) विद्वद्भिः (अनुमाद्यः) अनुहर्षणीयः, उद्बोधनीयः सन् (मामृजे) सद्गुणकर्मभिः अलङ्क्रियते ॥२॥अत्र श्लिष्टोपमालङ्कारः ॥२॥
भावार्थ : सर्वैर्मनुष्यैर्वेदानधीत्य स्वात्मशक्तिं परिज्ञाय सदाचारिणां विदुषां सङ्गेन स्वात्मोन्नतिः सततं कार्या ॥२॥
टिप्पणी:१. ऋ० ९।१०७।११, ‘मी॒ळहे सप्ति॒र्न वा॑ज॒युः’ इति द्वितीयः पादः।