Samveda/1799
न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमस्य यस्य विद्वान्। सदा ते नाम स्वयशो विवक्मि॥१७९९
Veda : Samveda | Mantra No : 1799
In English:
Seer : vasiShTho maitraavaruNiH | Devta : indraH | Metre : viraaT | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : na te giro api mRRiShye turasya na suShTutimasuryasya vidvaan . sadaa te naama svayasho vivakmi.1799
Component Words : na . te . giraH . api . mRRiShye . turasva . na . suShTutim . su . stutim . asuryasya . a . suryasya . vidvaana . sadaa . te . naama . svayashaH . sva . yashaH . vivakmi.
In Hindi:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : विराट् | स्वर : गान्धारः
विषय : अगले मन्त्र में फिर वही विषय है।
पदपाठ : न । ते । गिरः । अपि । मृष्ये । तुरस्व । न । सुष्टुतिम् । सु । स्तुतिम् । असुर्यस्य । अ । सुर्यस्य । विद्वान । सदा । ते । नाम । स्वयशः । स्व । यशः । विवक्मि॥
पदार्थ : हे इन्द्र जगदीश ! (तुरस्य) दोषों के हिंसक (ते) आपकी (गिरः) कर्तव्य का उपदेश करनेवाली वाणियों को, मैं (न अपि मृष्ये) नहीं छोड़ता अर्थात् उनकी उपेक्षा नहीं करता। आपके (असुर्यस्य) बल का (विद्वान्) ज्ञाता मैं (सुष्टुतिम्) आपकी उत्कृष्ट स्तुति को भी (न) नहीं छोड़ता। (सदा) हमेशा (ते) आपके (स्वयशः) निज कीर्तिवाले (नाम) नाम को (विवक्मि) जपता रहता हूँ ॥२॥
भावार्थ : परमेश्वर का नाम स्मरण करने से और उसकी उपासना करने से सब दोष नष्ट हो जाते हैं और सद्गुण, तेज, बल तथा यश प्राप्त होते हैं ॥२॥
In Sanskrit:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : विराट् | स्वर : गान्धारः
विषय : अथ पुनस्तमेव विषयमाह।
पदपाठ : न । ते । गिरः । अपि । मृष्ये । तुरस्व । न । सुष्टुतिम् । सु । स्तुतिम् । असुर्यस्य । अ । सुर्यस्य । विद्वान । सदा । ते । नाम । स्वयशः । स्व । यशः । विवक्मि॥
पदार्थ : हे इन्द्र जगदीश ! (तुरस्य) दोषाणां हिंसकस्य (ते) तव (गिरः) कर्तव्योपदेशात्मिका वाचः, अहम् (न अपि मृष्ये२) न परित्यजामि, न उपेक्षे। तव (असुर्यस्य) बलस्य (विद्वान्) ज्ञाता अहम् (सुष्टुतिम्) त्वदीयां सुस्तुतिमपि (न) न अपिमृष्ये परित्यजामि। (सदा) सर्वदा (ते) तव (स्वयशः) स्वकीर्तिमत् (नाम) नाम (विवक्मि) वच्मि। [तुरस्य तुर्वति हिनस्ति दोषानिति तुरः, तुर्वी हिंसार्थः। असुर्यस्य, असुरः प्राणवान्, मत्वर्थे रः, असुरस्य स्वम् असुर्यम् बलम्। ‘असुरस्य स्वम्’ अ० ४।४।१२३ इति यत्। विवक्मि, वच परिभाषणे अदादिः, ‘बहुलं छन्दसि’ अ० २।४।७६ इति शपः श्लुः] ॥२॥३
भावार्थ : परमेशनामस्मरणेन तदुपासनेन च सर्वे दोषाः क्षीयन्ते, सद्गुणास्तेजांसि बलानि यशांसि च समागच्छन्ति ॥२॥
टिप्पणी:१. ऋ० ७।२२।५।२. न अपिमृष्ये। मृषिर्मार्जनकर्मा, न मार्जयामि, न परित्यजामीत्यर्थः। मृषेर्मार्जनकर्मत्वमन्यत्रापि दृश्यते। तद्यथा ‘मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठाः’, (ऋ० १।७०।१०) इति—इति सा०।३. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं परीक्षकैर्विद्यार्थिनां परीक्षाविषये व्याख्यातः।