Samveda/1859
अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ताजयन्तु। अस्माकं वीरा उत्तरे भवन्त्वस्मा उ देवा अवता हवेषु॥१८५९
Veda : Samveda | Mantra No : 1859
In English:
Seer : apratiratha aindraH | Devta : indraH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : asmaakamindraH samRRiteShu dhvajeShvasmaaka.m yaa iShavastaa jayantu . asmaaka.m viiraa uttare bhavantvasmaa.m u devaa avataa haveShu.1859
Component Words : asmaakam . indra . samRRiteShu . sam . RRiteShu . dhvajeShu . asmaakam . yaaH . iShavaH . taaH . jayantu . asmaakam . viiraaH . uttare . bhavantu . asmaan . u . devaaH . avata . haveShu.
In Hindi:
ऋषि : अप्रतिरथ ऐन्द्रः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अब विजय की प्रार्थना करते हैं।
पदपाठ : अस्माकम् । इन्द्र । समृतेषु । सम् । ऋतेषु । ध्वजेषु । अस्माकम् । याः । इषवः । ताः । जयन्तु । अस्माकम् । वीराः । उत्तरे । भवन्तु । अस्मान् । उ । देवाः । अवत । हवेषु॥
पदार्थ : (अस्माकम् इन्द्रः) हमारा सेनापति-तुल्य जीवात्मा (ध्वजेषु समृतेषु) हमारे ध्वजों के शत्रु-ध्वजों से टकराने पर (जयतु) विजय-लाभ करे। (अस्माकं याः इषवः) हमारे जो बाण हैं,(ताः जयन्तु) वे विजय-लाभ करें। (अस्माकं वीराः) हमारे रण-कुशल वीर योद्धा (उत्तरे भवन्तु) विजयी हों। हे (देवाः) जीतने के अभिलाषी मन, बुद्धि आदियो ! (अस्मान् उ) हमारी (हवेषु) देवासुरसङ्ग्रामों में (अवत) रक्षा करो ॥२॥
भावार्थ : जैसे सेनापति से प्रोद्बोधन पाकर रणबाँकुरे सैनिक शीघ्र ही शत्रुओं को जीत लेते हैं, वैसे ही अपनी अन्तरात्मा को प्रोत्साहन देना वीरों के विजय में हेतु बनता है ॥२॥
In Sanskrit:
ऋषि : अप्रतिरथ ऐन्द्रः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ विजयः प्रार्थ्यते।
पदपाठ : अस्माकम् । इन्द्र । समृतेषु । सम् । ऋतेषु । ध्वजेषु । अस्माकम् । याः । इषवः । ताः । जयन्तु । अस्माकम् । वीराः । उत्तरे । भवन्तु । अस्मान् । उ । देवाः । अवत । हवेषु॥
पदार्थ : (अस्माकम् इन्द्रः) अस्मदीयः सेनापतिरिव जीवात्मा (ध्वजेषु समृतेषु२) पताकासु शत्रुपताकाभिः सह संगतासु सतीषु [जयतु] विजयं लभताम्। (अस्माकम् या इषवः) आस्माकीनाः याः बाणपङ्क्तयः (ताः जयन्तु) ताः विजयं लभन्ताम्। (अस्माकं वीराः) अस्मदीया रणकुशलाः शूरा योद्धारः (उत्तरे भवन्तु) विजयिनः सन्तु। हे (देवाः) विजिगीषवो मनोबुद्ध्यादयः ! (अस्मान् उ) अस्मान् खलु (हवेषु३) देवासुरसङ्ग्रामेषु (अवत) रक्षत ॥२॥४
भावार्थ : यथा सेनापतेः सकाशात् प्रोद्बोधनं प्राप्य रणोद्भटाः सैनिकाः सत्वरं शत्रून् विजयन्ते, तथैव स्वान्तरात्मनः प्रोत्साहनं वीराणां विजयहेतुर्जायते ॥२॥
टिप्पणी:१. ऋ० १०।१०३।११; य० १७।४३; अथ० १९।१३।३१।२. समृतेषु परसेनां सम्प्राप्तेषु ध्वजेषु, ध्वजवत्सु सैनिकेषु—इति सा०। ध्वजेषु समृतेषु, ऋ गतौ, शत्रुध्वजैः संगतैः सत्सु—इति वि०।३. (हवेषु) ह्वयन्ति स्पर्धन्ते परस्परं येषु संग्रामेषु तेषु—इति ऋग्भाष्ये द०।४. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं युद्धनीतिविषये व्याख्यातवान्।