Samveda/556
एष प्र कोशे मधुमा अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टमः। अभ्यृ़३ तस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसा च घेनवः॥५५६
Veda : Samveda | Mantra No : 556
In English:
Seer : kavirbhaargavaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH
Subject : English Translation will be uploaded as and when ready.
Verse : eSha pra koshe madhumaa.m achikradadindrasya vajro vapuSho vapuShTamaH . abhyaRRiRRi3tasya sudushchaa ghRRitashchuto vaashraa arShanti payasaa cha ghenavaH.556
Component Words : eShaH. pra. koshe. madhumaan. achikradat. indrasya. vajraH. vapuShaH. vapuShTamaH. abhi.RRitasya. sudughaaH .su.dughaaH. ghRRitashchutaH.ghRRita.shchutaH. vaashraaH . arShanti. payasaa. cha. ghenavaH..
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : अगले मन्त्र में परमात्मा रूप सोम की प्राप्ति का फल वर्णित किया गया है।
पदपाठ : एषः। प्र। कोशे। मधुमान्। अचिक्रदत्। इन्द्रस्य। वज्रः। वपुषः। वपुष्टमः। अभि।ऋतस्य। सुदुघाः ।सु।दुघाः। घृतश्चुतः।घृत।श्चुतः। वाश्राः । अर्षन्ति। पयसा। च। घेनवः।३।
पदार्थ : (एषः) यह (मधुमान्) मधुर परमात्मारूप सोम (कोशे) हमारे मनोमय कोश में (प्र अचिक्रदत्) दिव्य शब्द करा रहा है, जिससे (इन्द्रस्य) जीवात्मा का (वज्रः) काम, क्रोध आदि रिपुओं के वर्जन का सामर्थ्य (वपुषः वपुष्टमः) दीप्त से दीप्ततम अथवा विशाल से विशालतम हो गया है। (वाश्राः) शब्दायमान (धेनवः) वेदवाणी रूप गौएँ (ऋतस्य) सत्य की (सुदुघाः) उत्तम दोहन करनेवाली और (घृतश्चुतः) तेजरूप घी को क्षरित करनेवाली होती हुई (पयसा) वेदार्थरूप दूध के साथ (अभि अर्षन्ति) हमें प्राप्त हो रही हैं ॥३॥इस मन्त्र में वेदवाणियों में धेनुओं का और वेदार्थ में दूध का आरोप होने से तथा उपमान द्वारा उपमेय का निगरण हो जाने से अतिशयोक्ति अलङ्कार है ॥३॥
भावार्थ : जब वेदवाणी-रूपिणी गौएँ अपना पवित्र और पवित्रताकारी वेदार्थरूप दूध पिलाती हैं, तब उस दूध से मनुष्य का आत्मा सत्यमय, तेजोमय, अतिशय बलवान्, पवित्र और परिपुष्ट हो जाता है ॥३॥
In Sanskrit:
ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : अथ परमात्मसोमप्राप्तेः फलं वर्णयति।
पदपाठ : एषः। प्र। कोशे। मधुमान्। अचिक्रदत्। इन्द्रस्य। वज्रः। वपुषः। वपुष्टमः। अभि।ऋतस्य। सुदुघाः ।सु।दुघाः। घृतश्चुतः।घृत।श्चुतः। वाश्राः । अर्षन्ति। पयसा। च। घेनवः।३।
पदार्थ : (एषः) अयम् (मधुमान्) मधुररसमयः परमात्मसोमः (कोशे) अस्माकं मनोमयकोशे (प्र अचिक्रदत्) दिव्यं शब्दं कारयति। क्रदतेः शब्दकर्मणो णिचि लुङि रूपम्। येन (इन्द्रस्य) जीवात्मनः (वज्रः) कामक्रोधादिरिपुगणानां वर्जनसामर्थ्यम् (वपुषः वपुष्टमः२) दीप्तात् दीप्ततमः यद्वा वपुष्मतो वपुष्मत्तमः विशालाद् विशालतमः इत्यर्थः, सञ्जातः। (वाश्राः३) शब्दायमानाः। वाशृ शब्दे। वाशन्ते शब्दायन्ते इति वाश्राः, अत्र ‘स्फायितञ्चि०। उ० २।१२’ इति रक् प्रत्ययः। (धेनवः४) वेदवाग्लक्षणा गावः (ऋतस्य) सत्यस्य (सुदुघाः) सुष्ठु दोग्ध्र्यः, (घृतश्चुतः) तेजोरूपस्य घृतस्य स्रावयित्र्यश्च सत्यः (पयसा च) वेदार्थरूपेण दुग्धेन च सह (अभि अर्षन्ति) अस्मान् प्रति प्राप्नुवन्ति ॥३॥अत्र वेदवाचि धेनुत्वारोपाद् वेदार्थे च पयस्त्वारोपाद् उपमानेनोपमेयस्य निगरणाच्चातिशयोक्तिरलङ्कारः ॥३॥
भावार्थ : यदा वेदवाग्रूपा धेनवः पवित्रं पावकं च वेदार्थरूपं स्वकीयं पयः पाययन्ति तदा तेन पयसा मनुष्यस्यात्मा सत्यमयस्तेजोमयो बलवत्तमः पवित्रः परिपुष्टश्च जायते ॥३॥
टिप्पणी:१. ऋ० ९।७७।१ ‘वपुष्टरः’, ‘अभीमृतस्य’, ‘पयसेव धेनवः’ इति पाठः।२. वपुषः वपुष्टमः दीप्तेः दीप्ततमः—इति वि०। वपुषः वपुष्मतः दीप्तिमतः वपुष्टमः दीप्तिमत्तमः—इति भ०। वपुषः बीजानां वप्तुः अन्यस्मात् वपुष्टमः अतिशयेन वप्ता, बीजावापस्य सोमकर्तृकत्वात्, ‘सोमो वै रेतोधाः’ इति श्रुतेः—इति सा०।३. वाश्राः कामयमानाः—इति वि० [वश कान्तौ]। शब्दयन्त्यः—इति सा०।४. धेनवः धेट् पाने। पिबन्त्यः उदकम् आदित्यरश्मयः कामयमानाः। क्षरन्ति पयः धेनवः आदित्यरश्मयश्च—इति वि०। धेनवः आशीर्दुहः—इति भ०। ऋतस्य सत्यफलस्य सोमस्य धाराः इति शेषः। वाश्रा धेनवः इव लुप्तोपममेतत्—इति सा०।