Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 18 / 3

अ॒दो यत्ते॑ हृ॒दि श्रि॒तं म॑न॒स्कं प॑तयिष्णु॒कम्। तत॑स्त ई॒र्ष्यां मु॑ञ्चामि॒ निरू॒ष्माणं॒ दृते॑रिव ॥ 3॥

Veda : Atharvaveda | Kand : 6 | Sukta : 18 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : अथर्वा | देवता : ईर्ष्याविनाशनम् | छन्द : अनुष्टुप् | स्वर :

विषय : ईर्ष्या के निवारण का उपदेश।

पदपाठ : अ॒द: । यत् । ते॒ ।हृ॒दि । श्रि॒तम् । म॒न॒:ऽकम् । प॒त॒यि॒ष्णु॒कम् । तत॑: । ते॒ । ई॒र्ष्याम् । मु॒ञ्चा॒मि॒ । नि: । ऊ॒ष्माण॑म् । दृंते॑:ऽइव ॥१८.३॥

पदार्थ : (अदः) वह (यत्) जो (ते) तेरे (हृदि) हृदय में (श्रितम्) रक्खा हुआ (पतयिष्णुकम्) धड़कता हुआ (मनस्कम्) छोटा मन है (ततः) उससे (ते) तेरी (ईर्ष्याम्) ईर्ष्या को (निर्मुञ्चामि) बाहिर निकालता हूँ, (इव) जैसे (दृतेः) धोंकनी से (ऊष्माणम्) श्वास को ॥३॥"

भावार्थ :

टिप्पणी :३−(अदः) तत् प्रसिद्धम् (यत्) (ते) तव (हृदि) हृदये (श्रितम्) स्थितम् (मनस्कम्) अल्पान्तःकरणम् (पतयिष्णुकम्) णेश्छन्दसि। पा० ३।२।१३७। इति पत गतौ−इष्णुच्, कन् च। इतस्ततः पतनशीलम् (ततः) तस्माद् मनसः (ते) तव (ईर्ष्याम्) म० १। मत्सरम् (मुञ्चामि) मोचयामि (निः) बहिर्भावे (ऊष्माणम्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति उष दाहे−मनिन्, छान्दसो दीर्घः। वाष्पम्। अन्नः पूरितं वायुम्, (दृतेः) दृणातेर्ह्रस्वः। उ० ४।१८४। इति दॄ विदारणे−ति। चर्ममयात् पात्रात्। भस्त्रायाः सकाशात् (इव) यथा ॥