Samveda/932
समु रेभासो अस्वरन्निन्द्र सोमस्य पीतये। स्वःपतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः (ची)।। [धा. । उ । स्व. ।]॥९३२
Veda : Samveda | Mantra No : 932
In English:
Seer : rebhaH kaashyapaH | Devta : indraH | Metre : upariShTaadbRRihatii | Tone : niShaadaH
Subject : English Translation will be uploaded as and when ready.
Verse : samu rebhaso asvarannindra.m somasya piitaye . svaH patiryadii vRRidhe dhRRitavrato hyojasaa samuutibhiH.932
Component Words : sam .u .rebhaasaH .asvaran .indram .somasya .piitaye .svaspatiH .sva.ariti .pati .yadi .vRRidhe .dhRRitavrataH .dhRRita .vrataH. hi .ojasaa .sam .uutibhiH.
In Hindi:
ऋषि : रेभः काश्यपः | देवता : इन्द्रः | छन्द : उपरिष्टाद्बृहती | स्वर : निषादः
विषय : अगले मन्त्र में फिर वही विषय है।
पदपाठ : सम् ।उ ।रेभासः ।अस्वरन् ।इन्द्रम् ।सोमस्य ।पीतये ।स्वस्पतिः ।स्वऽ३रिति ।पति ।यदि ।वृधे ।धृतव्रतः ।धृत ।व्रतः। हि ।ओजसा ।सम् ।ऊतिभिः॥
पदार्थ : (रेभासः) स्तोता लोग (इन्द्रम्) विघ्नविनाशक परमात्मा को (सोमस्य पीतये) भक्तिरस के पान के लिए (सम् उ अस्वरन्) भली-भाँति पुकारते हैं। (स्वः पति) दिव्य प्रकाश, आनन्द वा मोक्ष का अधिपति वह (यदि) यदि (वृधे) वृद्धि करने के लिए (धृतव्रतः)संकल्प कर लेता है, तो उपासक को (ओजसा) आत्मबल से और (ऊतिभिः) रक्षाओं से (सम्) संयुक्त कर देता है ॥३॥
भावार्थ : उपासक की दृढ़ श्रद्धा को देखकर परमेश्वर उसमें ओज और पुरुषार्थ की प्रेरणा करके उसकी निरन्तर रक्षा करता है ॥३॥
In Sanskrit:
ऋषि : रेभः काश्यपः | देवता : इन्द्रः | छन्द : उपरिष्टाद्बृहती | स्वर : निषादः
विषय : अथ पुनः स एव विषयो वर्ण्यते।
पदपाठ : सम् ।उ ।रेभासः ।अस्वरन् ।इन्द्रम् ।सोमस्य ।पीतये ।स्वस्पतिः ।स्वऽ३रिति ।पति ।यदि ।वृधे ।धृतव्रतः ।धृत ।व्रतः। हि ।ओजसा ।सम् ।ऊतिभिः॥
पदार्थ : (रेभासः) स्तोतारः। [रेभ इति स्तोतृनाम। निघं० ३।१६। रेभति अर्चतिकर्मा। निघं० ३।१४।] (इन्द्रम्)विघ्नविदारकं परमात्मानम् (सोमस्य पीतये)भक्तिरसस्य पानाय (सम् उ अस्वरन्) समाह्वयन्ति। (स्वः पतिः) दिव्यप्रकाशस्य आनन्दस्य मोक्षस्य वा अधिपतिः सः (यदि) चेत् (वृधे) वृद्धिं कर्तुम् (धृतव्रतः) गृहीतसंकल्पो भवति, तर्हि उपासकम् (ओजसा) आत्मबलेन (ऊतिभिः) रक्षाभिश्च (सम्) संयोजयति ॥३॥
भावार्थ : उपासकस्य दृढां श्रद्धां दृष्ट्वा परमेश्वरस्तस्मिन्नोजः पुरुषार्थं च प्रेरयित्वा तं सततं रक्षति ॥३॥
टिप्पणी:१. ऋ० ८।९७।११, अथ० २०।५४।२। ‘समीं रेभासो अस्वरन्’, ‘स्वर्पतिं यदीं वृधे’ इति पाठः।