Samveda/1253
अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन्प्रजा भुवनस्य गोपाः। वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः॥१२५३
Veda : Samveda | Mantra No : 1253
In English:
Seer : paraasharaH shaaktyaH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : akraantsamudraH prathame vidharman janayanprajaa bhuvanasya gopaaH . vRRiShaa pavitre adhi saano avye bRRihatsomo vaavRRidhe svaano adriH. 1253
Component Words : akraan .samudraH .sam .udraH. prathame .vidharman. vi .dharmam .janayan .prajaaH .pra .jaaH .bhuvanasya .gopaaH .go .paaH .vRRiShaa .pavitre .adhi. saanau .avye .bRRihat .somaH .vaavRRidhe .svaanaH .adriH. a .driH.
In Hindi:
ऋषि : पराशरः शाक्त्यः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५२९ क्रमाङ्क पर परमात्मा और मेघ के विषय में की जा चुकी है। यहाँ फिर परमात्मा का ही विषय वर्णित करते हैं।
पदपाठ : अक्रान् ।समुद्रः ।सम् ।उद्रः। प्रथमे ।विधर्मन्। वि ।धर्मम् ।जनयन् ।प्रजाः ।प्र ।जाः ।भुवनस्य ।गोपाः ।गो ।पाः ।वृषा ।पवित्रे ।अधि। सानौ ।अव्ये ।बृहत् ।सोमः ।वावृधे ।स्वानः ।अद्रिः। अ ।द्रिः॥
पदार्थ : इसी सोम परमात्मा के शासन में (समुद्रः) सूर्य (परमे) उच्च, (विधर्मणि) विशेष धारणकर्ता द्युलोक में (अक्रान्) अपनी धुरी पर घूमता है, जो सूर्य (प्रजाः जनयन्) प्रजाओं को उत्पन्न करता हुआ (भुवनस्य) सौरमण्डल का (गोपाः) रक्षक है। (पवित्रे) अन्तरिक्ष में और (अव्ये सानौ अधि) पृथिवी के उन्नत प्रदेश में (वृषा) वर्षा करनेवाला, (स्वानः) भूमि आदि लोकों को उनकी अपनी-अपनी कक्षा में सूर्य के चारों ओर प्रेरित करता हुआ (अद्रिः) अविनश्वर (सोमः) जगत्स्रष्टा (बृहत्) बहुत अधिक (वावृधे) महिमा को प्राप्त हुआ है ॥१॥
भावार्थ : परमेश्वर ही अपनी महिमा से सूर्य को और उसके चारों ओर भूमि, चन्द्रमा आदि ग्रह-उपग्रहों को घुमा रहा है ॥१॥
In Sanskrit:
ऋषि : पराशरः शाक्त्यः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ५२९ क्रमाङ्के परमात्मपर्जन्ययोर्विषये व्याख्याता। अत्र पुनः परमात्मविषय उच्यते।
पदपाठ : अक्रान् ।समुद्रः ।सम् ।उद्रः। प्रथमे ।विधर्मन्। वि ।धर्मम् ।जनयन् ।प्रजाः ।प्र ।जाः ।भुवनस्य ।गोपाः ।गो ।पाः ।वृषा ।पवित्रे ।अधि। सानौ ।अव्ये ।बृहत् ।सोमः ।वावृधे ।स्वानः ।अद्रिः। अ ।द्रिः॥
पदार्थ : अस्यैव सोमस्य परमात्मनः शासने (समुद्रः) आदित्यः।[समुद्र आदित्यः इति निरुक्तम् १३।१६।] (परमे) उच्चे (विधर्मणि) विशेषेण धारके द्युलोके (अक्रान्) क्राम्यति, स्वधुरि भ्रमति, यः आदित्यः (प्रजाः जनयन्) प्रजाः उत्पादयन् (भुवनस्य) सौरमण्डलस्य (गोपाः) रक्षकोऽस्ति। (पवित्रे) अन्तरिक्षे। [अन्तरिक्षं वै पवित्रम्। काठ० २६।१०।] (अव्ये सानौ अधि) पार्थिवे उन्नतप्रदेशे च (वृषा) वृष्टिकर्ता, (स्वानः) सुवानः, भूम्यादिलोकान् स्वस्वकक्षायां सूर्यं परितः प्रेरयन् (अद्रिः) अविनश्वरः (सोमः) जगत्स्रष्टा परमात्मा (बृहत्) बहु (वावृधे) महिमानमाप्नोति। [वृधु वृद्धौ, लिटि ‘तुजादीनां दीर्घोऽभ्यासस्य।’ अ० ६।१।७ इत्यभ्यासदीर्घः] ॥१॥
भावार्थ : परमेश्वर एव स्वमहिम्ना सूर्यं तं परितो भूमिचन्द्रादीन् ग्रहोपग्रहांश्च भ्रामयति ॥१॥
टिप्पणी:१. ऋ० ९।९७।४० ‘गोपाः’ इत्यत्र ‘राजा॑’ ‘स्वानो अद्रिः’ इत्यत्र ‘सुवान इन्दुः॑’। साम० ५२९।