Samveda/1416
न किरस्य सहन्त्य पर्येता कयस्य चित्। वाजो अस्ति श्रवाय्यः॥१४१६
Veda : Samveda | Mantra No : 1416
In English:
Seer : shunaH shepa aajiigartiH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : na kirasya sahantya paryetaa kayasya chit . vaajo asti shravaayyaH.1416
Component Words : na . kiH . asya . sahantva . paryataa . pari . etaa . kayasya . chit . vaajaH . asti . shravaayyaH.
In Hindi:
ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः
विषय : अगले मन्त्र में परमेश्वर की कृपा का फल वर्णित है।
पदपाठ : न । किः । अस्य । सहन्त्व । पर्यता । परि । एता । कयस्य । चित् । वाजः । अस्ति । श्रवाय्यः॥
पदार्थ : हे (सहन्त्य) शत्रुओं को तिरस्कृत करनेवाले अग्रणी परमात्मन् ! (कयस्य चित्) युद्ध विद्या के ज्ञाता (अस्य) इस आपके स्तोता को (पर्येता) घेरनेवाला वा उस पर आक्रमण करनेवाला (न किः) कोई नहीं होता, प्रत्युत (वाजः) युद्ध (श्रवाय्यः) उसका यश फैलानेवाला (अस्ति) होता है ॥२॥
भावार्थ : जिस पर जगदीश्वर कृपा करता है, उसे युद्ध में कोई भी हरा नहीं सकता, अपितु वह विजयश्री को प्राप्त करता है ॥२॥
In Sanskrit:
ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथ परमेश्वरानुग्रहस्य फलमाह।
पदपाठ : न । किः । अस्य । सहन्त्व । पर्यता । परि । एता । कयस्य । चित् । वाजः । अस्ति । श्रवाय्यः॥
पदार्थ : हे (सहन्त्य) शत्रूणामभिभवितः अग्ने अग्रणीः परमात्मन् ! (कयस्य२ चित्) युद्धविद्याया ज्ञातुः [कि ज्ञाने, जुहोत्यादिः, चिकेति जानाति योद्धुं यः स कयः।] (अस्य) तव स्तोतुः (पर्येता) परिवारकः आक्रमिता वा (न किः) न कश्चिदपि भवति। प्रत्युत (वाजः) सङ्ग्रामः, तस्य (श्रवाय्यः) श्रोतुं योग्यः यशस्करः (अस्ति) जायते ॥२॥३
भावार्थ : यं जगदीश्वरोऽनुगृह्णाति तं सङ्ग्रामे कश्चित् पराजेतुं न क्षमते, प्रत्युत स विजयश्रियं लभते ॥२॥
टिप्पणी:१. ऋ० १।२७।८।२. कयस्य चित् कस्यापि। कयस्य यकारोपजनश्छान्दसः—इति ऋ० १।२७।८ भाष्ये सा०। (कयस्य) यः चिकेति जानाति योद्धुं शत्रून् पराजेतुं स कयः तस्य। अत्र सायणाचार्येण यकारोपजनश्छान्दसः इति भ्रमादेवोक्तम्—इति तत्रैव द०।३. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सेनाध्यक्षविषये व्याख्यातः।