Samveda/1778
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः। रथीर्ऋतस्य बृहतो बभूथ॥१७७८
Veda : Samveda | Mantra No : 1778
In English:
Seer : vaamadevo gautamaH | Devta : agniH | Metre : pada pa.mktiH | Tone : pa~nchamaH
Subject : English Translation will be uploaded as and when ready.
Verse : adhaa hyagne kratorbhadrasya dakShasya saadhoH . rathiirRRitasya bRRihato babhuutha.1778
Component Words : adha . hi . agne . kratoH . bhadrasya . dakShasya . saadhoH . rathiiH . RRitasya . bRRihataH . babhuutha.
In Hindi:
ऋषि : वामदेवो गौतमः | देवता : अग्निः | छन्द : पद पंक्तिः | स्वर : पञ्चमः
विषय : अगले मन्त्र में परमात्मा का वर्णन है।
पदपाठ : अध । हि । अग्ने । क्रतोः । भद्रस्य । दक्षस्य । साधोः । रथीः । ऋतस्य । बृहतः । बभूथ॥
पदार्थ : (अध) और हे (अग्ने) जीवन को उन्नत करनेवाले परमात्मदेव ! आप (भद्रस्य क्रतोः) शुभकर्म के, (साधोः दक्षस्य) साधु बल के और (बृहतः ऋतस्य) महान् सत्य के (रथीः) स्वामी (हि) निश्चय ही (बभूथ) हो ॥२॥
भावार्थ : जैसे जगदीश्वर श्रेष्ठ कर्म, बल और सत्य का अधिपति है, वैसे ही मनुष्यों को भी होना चाहिए ॥२॥
In Sanskrit:
ऋषि : वामदेवो गौतमः | देवता : अग्निः | छन्द : पद पंक्तिः | स्वर : पञ्चमः
विषय : अथ परमात्मानं वर्णयति।
पदपाठ : अध । हि । अग्ने । क्रतोः । भद्रस्य । दक्षस्य । साधोः । रथीः । ऋतस्य । बृहतः । बभूथ॥
पदार्थ : (अध) अथ, हे (अग्ने) जीवनोन्नायक परमात्मदेव ! त्वम् (भद्रस्य क्रतोः) शुभस्य कर्मणः (साधोः दक्षस्य) शोभनस्य बलस्य, (बृहतः ऋतस्य) महतः सत्यस्य च (रथीः) स्वामी (हि) निश्चयेन (बभूथ) बभूविथ। [अत्र ‘बभूथाततन्थजगृभ्मववर्थेति निगमे’। अ० ७।२।६४ इति निपातनादिडभावः। ‘रथीः’ इत्यत्र ‘छन्दसीवनिपौ च वक्तव्यौ’ वा० ५।२।१२२ इति वार्तिकेन मत्वर्थे ई प्रत्ययः। ‘अधा’ इत्यत्र ‘निपातस्य च’। अ० ६।३।१३६ इत्यनेन दीर्घः] ॥२॥२
भावार्थ : यथा जगदीश्वरः श्रेष्ठस्य कर्मणो बलस्य सत्यस्य चाधिपतिर्वर्तते तथैव मनुष्यैरपि भाव्यम् ॥२॥
टिप्पणी:१. ऋ० ४।१०।२; य० १५।४५।२. दयानन्दर्षिणा मन्त्रोऽयमृग्भाष्ये राजधर्मविषये यजुर्भाष्ये चाध्यापकाध्येतृविषये व्याख्यातः।