Samveda/1818
ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः। त्वे इषः सं दधुर्भूरिवर्षसश्चित्रोतयो वामजाताः॥१८१८
Veda : Samveda | Mantra No : 1818
In English:
Seer : agniH paavakaH | Devta : agniH | Metre : satobRRihatii | Tone : pa~nchamaH
Subject : English Translation will be uploaded as and when ready.
Verse : uurjo napaajjaatavedaH sushastibhirmandasva dhiitibhirhitaH . tve iSha sa.m dadhurbhuurivarpasashchitrotayo vaamajaataaH.1818
Component Words : uurjaH . napaat . jaatavedaH . jaata . vedaH . sushastibhiH . su . shastibhiH . mandasva . dhiitibhiH . hitaH . tveiti . ighaH . sam . dadhuH . bhuurivarpasaH . bhuuri . varpasaH . chitrotayaH . chitra . uutayaH . vaamajaataa . vaama . jaataa.
In Hindi:
ऋषि : अग्निः पावकः | देवता : अग्निः | छन्द : सतोबृहती | स्वर : पञ्चमः
विषय : अगले मन्त्र में परमात्मा से प्रार्थना की गयी है।
पदपाठ : ऊर्जः । नपात् । जातवेदः । जात । वेदः । सुशस्तिभिः । सु । शस्तिभिः । मन्दस्व । धीतिभिः । हितः । त्वेइति । इघः । सम् । दधुः । भूरिवर्पसः । भूरि । वर्पसः । चित्रोतयः । चित्र । ऊतयः । वामजाता । वाम । जाता॥
पदार्थ : हे (ऊर्जः नपात्) बल और प्राणशक्ति को न गिरने देनेवाले, प्रत्युत बढ़ानेवाले (जातवेदः) सर्वज्ञ, सर्वान्तर्यामी जगत्पति परमात्मन् ! (धीतिभिः) ध्यान-क्रियाओं से (हितः) हृदय में धारण किये हुए आप (सुशस्तिभिः) उत्तम प्रशस्तियों से (मन्दस्व) हमें आनन्दित करो। (भूरिवर्पसः) बहुत से रूपों अर्थात् गुणोंवाले, (चित्रोतयः) मञ्जुल आचरणोंवाले (वामजाताः) सेवनीय आचार्य से श्रेष्ठ जन्म को प्राप्त उपासक (त्वयि) आप में (इषः) अपनी अभिलाषाओं को (संदधुः) सञ्जोये हुए हैं ॥३॥
भावार्थ : जो मनुष्य अपने आपको परमात्मा में समर्पित कर देते हैं, वे सुप्रशस्तिमान् और सुकीर्तिमान् होते हैं ॥३॥
In Sanskrit:
ऋषि : अग्निः पावकः | देवता : अग्निः | छन्द : सतोबृहती | स्वर : पञ्चमः
विषय : अथ परमात्मानं प्रार्थयते।
पदपाठ : ऊर्जः । नपात् । जातवेदः । जात । वेदः । सुशस्तिभिः । सु । शस्तिभिः । मन्दस्व । धीतिभिः । हितः । त्वेइति । इघः । सम् । दधुः । भूरिवर्पसः । भूरि । वर्पसः । चित्रोतयः । चित्र । ऊतयः । वामजाता । वाम । जाता॥
पदार्थ : हे (ऊर्जः नपात्) बलस्य प्राणशक्तेश्च न पातयितः प्रत्युत प्रवर्धक (जातवेदः) सर्वज्ञ, सर्वान्तर्यामिन् जगत्पते ! (धीतिभिः) ध्यानक्रियाभिः (हितः) हृदि निहितस्त्वम् (सुशस्तिभिः) सुप्रशस्तिभिः, अस्मान् (मन्दस्व) मोदयस्व [मन्दतिरत्र ण्यर्थगर्भो बोध्यः] (भूरिवर्पसः) बहुरूपाः, विविधगुणा इत्यर्थः। [वर्प इति रूपनाम। निघं० ३।७।] (चित्रोतयः) चित्रा मञ्जुला ऊतिः गतिः आचारो येषां ते। [ऊतिः, अव रक्षणगत्यादिषु। ‘ऊतियूतिजूति०’ अ० ३।३।९७ इत्युदात्ते क्तिनि ‘ज्वरत्वर०’ अ० ६।४।२० इति ऊठ्।] (वामजाताः) सेवनीयात् आचार्यात् प्राप्तश्रेष्ठजन्मानः उपासकाः (त्वे) त्वयि (इषः) स्वकीयान् अभिलाषान् (संदधुः) समर्पयन्ति ॥३॥२
भावार्थ : ये जनाः स्वात्मानं परमात्मने समर्पयन्ति ते सुप्रशस्तयः सुकीर्तिमन्तश्च जायन्ते ॥३॥
टिप्पणी:१. ऋ० १०।१४०।३, य० १२।१०८।२. यजुर्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं ‘मातापितृसन्तानाः कीदृशा भवेयु’रिति विषये व्याख्यातः।