Samveda/1820
इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्त राधसो महः। रातिं वामस्य सुभगां महीमिषं दधासि सानसि रयिम्॥१८२०
Veda : Samveda | Mantra No : 1820
In English:
Seer : agniH paavakaH | Devta : agniH | Metre : satobRRihatii | Tone : pa~nchamaH
Subject : English Translation will be uploaded as and when ready.
Verse : iShkarttaaramadhvarasya prachetasa.m kShayanta.m raadhaso mahaH . raati.m vaamasya subhagaa.m mahiimiSha.m dadhaasi saanasi.m rayim.1820
Component Words : iShkartaaram . adhvarasya . prachetasam . pra . chetasam . kShayantam . raadhasaH . mahaH . raatim . vaamasya . subhagaam . su . bhagaam . mahiim . iSham . dadhaasi . saanasim . rayim.
In Hindi:
ऋषि : अग्निः पावकः | देवता : अग्निः | छन्द : सतोबृहती | स्वर : पञ्चमः
विषय : अगले मन्त्र में परमेश्वर के गुण-कर्म-स्वभावों का वर्णन है।
पदपाठ : इष्कर्तारम् । अध्वरस्य । प्रचेतसम् । प्र । चेतसम् । क्षयन्तम् । राधसः । महः । रातिम् । वामस्य । सुभगाम् । सु । भगाम् । महीम् । इषम् । दधासि । सानसिम् । रयिम्॥
पदार्थ : हे जगदीश्वर ! (अध्वरस्य) जीवन-यज्ञ के (इष्कर्तारम्) संस्कृत करनेवाले, (प्रचेतसम्) जागृति प्रदान करनेवाले, (महः) महान् (राधसः) दिव्य धन के (क्षयन्तम्) ईश्वर, (वामस्य) सेवनीय सुरम्य ऐश्वर्य के (रातिम्) दाता आपकी हम उपासना करते हैं, आप (सुभगाम्) सौभाग्यकारिणी, (महीम्) महती (इषम्) अभीष्ट दुःखमुक्ति को और (सानसिम्) संभजनीय (रयिम्) भौतिक तथा दिव्य ऐश्वर्य को (दधासि) प्रदान करते हो ॥५॥
भावार्थ : आराधना किया हुआ परमेश्वर उपासकों को जागरूक करके और उन्हें सारी अभीष्ट लौकिक तथा दिव्य सम्पदा प्रदान करके कृतार्थ करता है ॥५॥
In Sanskrit:
ऋषि : अग्निः पावकः | देवता : अग्निः | छन्द : सतोबृहती | स्वर : पञ्चमः
विषय : अथ परमेश्वरस्य गुणकर्मस्वभावानाह।
पदपाठ : इष्कर्तारम् । अध्वरस्य । प्रचेतसम् । प्र । चेतसम् । क्षयन्तम् । राधसः । महः । रातिम् । वामस्य । सुभगाम् । सु । भगाम् । महीम् । इषम् । दधासि । सानसिम् । रयिम्॥
पदार्थ : हे जगदीश्वर ! (अध्वरस्य) जीवनयज्ञस्य (इष्कर्तारम्) संस्कर्तारम्, (प्रचेतसम्) प्रचेतयति जागरयतीति प्रचेताः तम्, (महः) महतः (राधसः) दिव्यस्य धनस्य (क्षयन्तम्) ईश्वरम्। [क्षयतिरैश्वर्यकर्मा। निघं० २।२१।] (वामस्य) वननीयस्य चारुणः ऐश्वर्यस्य (रातिम्) दातारम्। [रा दाने कर्तरि क्तिन्।] त्वां वयम् उपास्महे इति शेषः। त्वम् (सुभगाम्) सौभाग्यकारिणीम्, (महीम्) महतीम् (इषम्) अभीष्टां दुःखमुक्तिम्, अपि च (सानसिम्) संभजनीयम् (रयिम्) भौतिकं दिव्यं चैश्वर्यम् (दधासि) प्रयच्छसि ॥५॥२
भावार्थ : आराधितः परमेश्वर उपासकान् जागरूकान् विधाय तेभ्यः सकलामभीष्टां लौकिकीं दिव्यां च सम्पदं प्रदाय तान् कृतार्थयति ॥५॥
टिप्पणी:१. ऋ० १।१४०।५; य० १२।११०।२. यजुर्भाष्ये दयानन्दस्वामिना मन्त्रोऽयं ‘कः परोपकारी जायते’ इति विषये व्याख्यातः।